________________
- ११२
प्रमाणवात्तिकस्ववृत्तिटीका (१।४३) तस्माद् (यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः)। जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥४३।।
वृत्तिनिबन्धना धर्मभेदा अनित्यकृतकादयः कल्प्यन्ते विकल्पैरारोप्यन्ते। किम्विशिष्टास्तद्विशेषावगाहिनः। तस्य स्वलक्षणस्य ये विशेषा अकृतकादिव्यावृत्तिरूपलक्षणास्तदवगाहिनः। तदवगाहनशीला स्तदभेदावभासनशीला इत्यर्थः ।
एतदुक्तम्भवति (1) अकृतको न भवतीत्यनेन द्वारेण प्रबोधिताया एव कृतकविकल्पवासनाया एषा प्रकृतिर्यतस्ततो विकल्प उत्पद्यमानः कृतक इति स्वाकाराभिन्नः स कृतकव्यावृत्तमेव शब्दस्वलक्षणं प्रतिपद्यते न त्वनित्य इति (1) तथा नित्यो न भवतीत्यनेनापि द्वारेण प्रबोधिताया एवानित्यवासनायाः सामर्थ्य यत्ततो विकल्प उत्पद्यमानोऽनित्य इति स्वाकाराभिन्नं नित्यव्यावृत्तमेव शब्दस्वलक्षणं प्रतिपद्यते न तु कृतक इति (1) तेन बुद्धिभेदो भवति। यतश्च बाध्यमानत्वाद् विकल्पप्रतिभास्यर्थो बाह्यो न भवत्यतो वासनावशादेव बाह्यावभासो विकल्पस्तेन विकल्पस्य बाह्यरूप एव प्रतिभासमानोर्थः स्वाकार उच्यते। न तु स्वाकारे बाह्यारोपः सादृश्यात् । यदाह। नामनिमित्तप्रकरणे' (1)
''सारूप्याद् भ्रान्तितो वृत्तिरर्थे चेत् स्यान्न सर्वदा।
देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः । तथाविधाया बाह्यार्थप्रतिभासाया इति ।
एतेन यदुच्यते (1) "यद्वाह्यात्यन्तविसदृशस्य स्वाकारस्य ताद्रूप्यग्रहणन्तदन्यनिवृत्तिकृतसादृश्यपरं । यथा घटविसदृशोपि पटो वृक्षाभावविशिष्टोऽवधार्यमाणो यमप्यवृक्ष इति घटसदृशोवधार्यते। वृक्षव्यावृत्तेर्घटपटयोस्तुल्यत्वात् । तथा विकल्पविषयोऽत्यन्तं वामे विसदशोपि .वामेऽवधार्यतेऽन्यनिवत्तिकृतसारूप्य ग्रहणादि"ति (1) - तदपास्तं । स्वहेतुत एव बाह्याभासाया विकल्पबुद्धेरुत्पत्तेः । न चासदृशानामन्यनिवृत्त्या सादृश्यं क्रियते (1) तत्र तस्या भेदाभेदसादृश्यकरणेऽकिञ्चित्करत्वात् । न चान्यनिवृत्तिः सदृशी विद्यते। सदृशानामपि कथमन्यनिवृत्त्या सादृश्यं क्रियते स्वरूपेणैव सादृश्यात् । नापि पूर्व स्वाकारप्रतिभासः पश्चात् तत्रान्यनिवृत्तिकृतसादृश्यग्रहणपरो बाह्यारोपः प्रतिभासते। न हि मरीचिकायां पूर्व स्वरूपाप्रतिभासे
1 Pramāņavārtika 3 : 12.