________________
४. सामान्यचिन्ता
भिन्नप्रतिभासत्वात्। तथा हि (।) य एव शावलेयादयो गौरिति ज्ञानेन गृह्यन्ते। त एव निर्विकल्पके ज्ञाने प्रतिभासन्ते केवलमेकन्तानविकल्प्य गृह्णात्यन्यद् विकल्प्यति तयोः स्वरूपभेदोन प्रतिभासभेदः। तस्मान्निविकल्पकेपि ज्ञाने सामान्यं प्रतिभासत इति (1) ___ तदपि निरस्तं। स्वहेतुभ्य एव केषाञ्चित् समानानां प्रतिभासनात् । सामा. न्यस्य च व्यक्तिपरतन्त्रं स्वरूपं न च निर्विकल्पकं ज्ञानं पारतन्त्र्य म्वस्तुनो गृह्णाति। स्वातन्त्र्येण वस्तुग्राहित्वात् तत्कथं सामान्यग्राहकमुच्यते। अनुगतस्य च रूपस्य प्रत्येकवद् युगपद् बहुष्वप्रतिभासनात् । अत एव विकल्पः समानेष्वेकान्तभिन्नेषु निर्विकल्पकप्रत्यक्षबाधितमनुगताकारं गृह्णन् भ्रान्तो भवति। निर्विकल्पकगृहीतसामान्यग्राही वाऽप्रमाणं स्याद् गृहीतग्राहित्वात्। अथ विकल्प्य ग्राहित्वाद् अगृहीतग्राहित्वं स्मृत्यादेरपि (तर्हि) स्मर्यमाणविषयता गृहीतग्राहित्वन्न स्यात्। अथ जात्यादिविशिष्टवस्तुमाहितया विकल्पस्यागृहीतग्राहित्वमेवमपि यदि जात्यादिविशिष्टत्वम्वस्तुनः पारमार्थिको धर्मस्तदा निर्विकल्पकेनापि गृहीतमेवेति कथमगृहीतग्राहित्वम् (1) अथ कल्पिकस्तदा तद्ग्राहकस्य कथं प्रामाण्यमारोपितार्थत्वात्। तस्मान्नास्त्येव जात्यादिरिति स्थितं । ___कथन्तर्हि भावा व्यावृत्तिभागिन इत्युच्यन्ते (1) कल्पितधर्मद्वारेणायं व्यपदेश इत्यदोषः। अतः (1)
"अगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्प्यते।
गोत्ववस्त्वेव तैरुक्तमगोपोहगिरा स्फुटमिति" (1) . निरस्तं। पारमार्थिकस्य गोत्वस्य निषेधः क्रियते न तु कल्पितस्येति वक्ष्यति।
यदि परमाथिको धर्मधर्मिभावो नास्ति कथन्त हि कृतक: शब्दो नित्य इति 43b बुद्धीनाम्भेदः शब्दैकस्वरूपविषयत्वात् ।
''अथ निविषया एता वासनावीजमात्रतः । प्रतिपत्तिः प्रवृत्तिश्च बाह्यर्थेषु कथम्भवेत्”।
अथ बाह्याध्यवसायात् प्रवृत्तिरेवमपि कृतकत्वस्य योवसायः स एवानित्यस्याभेदादिति कथम्बुद्धिभेदः। कृतकानित्ययोरभेदादेव तदनुभवाहितवासनाभेदस्याभावान्न तत्त्वतो बुद्धिभेद इत्यत्राह।
यस्मादित्यादि । यस्मात् सर्वस्मात् सर्वभावा व्यावृत्तास्तस्माद् यतो यतो नित्याकृतकादे: शब्दादीनामर्थानां व्यावृत्तिस्तन्निबन्धनाः। व्यावृत्त्यावधिव्या
1 Ślokavārtika. Apohavāda.