SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११० प्रमाणवात्तिकस्ववृत्तिटीका (१।४२) भवतु वा भेदो नासौ प्रत्यक्षग्राह्योऽस्मादयम्भिन्न इति। एवंरूपस्य व्यापारस्य प्रत्यक्षेऽभावात् । यदाह। न हीदमियतो व्यापारान् कर्तुं समर्थमिति (1) सोपि निरस्तः। गवारवादीनां स्वस्वरूपेणोत्पत्तिरेव भेदः। ते च स्वस्वरूपेण प्रत्यक्षेवभासन्ते। तथावभासश्च लोके भेदावभास इति यत्किञ्चिदेतत्। तस्मात् पुरोवस्थितेषु स्वस्वभावव्यवस्थितेरित्यस्य हेतोः (1) प्रत्यक्षेण भेदं प्रतिपद्यमानः सर्वोपसंहारेण प्रतिपद्यतेऽतः सर्वभावा व्यावृत्तिभागिन इति व्याप्तिग्रहणप्रमाणफलमिति। यतश्च जात्यादयोर्थान्तरभूता न सन्तीति प्रतिपादयिष्यते (1) अतः पारमार्थिको धर्मर्मिभावो नास्तीत्युक्तम्भवति। ननु सामान्ययोगात् सजातीया उच्यन्ते। यदि च सामान्यन्नास्ति कथं सजातीयाद् व्यावृत्तिरित्युच्यते। नैतदस्ति। न समानानामुत्पन्नानाम्भावानां सामान्ययोगात् समानरूपता स्वहेतुभ्य एव तथानिष्पन्नत्वात् । तेन यदु द्योत करे णो च्यते। “न गवि गोत्वं येन गोत्वयोगात् प्राग् गौरेवासाविति व्यर्थं गोत्वं स्याद् (1) अपि तु यदैव वस्तु तदैव गोत्वेनाभिसम्बध्यते । गोत्वयोगात्त प्राग् वस्तु न विद्यते। न चाविद्यमानङ गौरिति वाऽगौरिति वा शक्यं 43a व्यापदेष्टमि"ति (1) तन्निरस्तं । यदैव वस्तु तदैव तस्य गोरूपतया निष्पन्नत्वात् किं गोत्वयोगेन। नाप्यसमानानां सामान्ययोगात् समानरूपता। तेषां सामान्यस्यैवाभावात्। समातानां च भावः सामान्यमित्यभ्युपगम्यते। सामान्याच्च समानरूपत्वे भावानामभ्युपगम्यमाने यावन्न सामान्ययोगस्तावन्न समाना भावाः। यावच्च न समानास्तावन्न सामान्य योग इत्यन्योन्याश्रयत्वं स्यात्। तस्मात् स्वहेतुभ्य एव समाना उत्पन्नाः (1) तेन। "शावलेयाच्च भिन्नत्वं बाहलेयाश्वयोस्समं। सामान्यं नान्यदिष्टं चेत् क्वागोपोहः प्रकल्प्यतामिति (1) निरस्तं। सामान्येष्वेवागोपोहप्रकल्पनात्। असमानानां चापोह्यात्मतया प्रकल्पनात्। यदप्युच्चते (1) समाना इति प्रतिभासादेव निर्विकल्पके ज्ञाने सामान्यप्रतिभासोन्यथा बाहुलेयाश्ववत्। शावलेयबाहुलेययोरपि वैलक्षण्यप्रतीतिः स्यात् सर्वात्मना भेदाद् (1) भवति च समाना इति प्रतीतिस्तस्मादस्यैव सामान्यमिति । तदुक्तं (1) निर्विकल्पकबोधेन द्वयात्मकस्य वस्तुनो ग्रहणमिति। यद्वा सविकल्पके न चेत् सामान्यं गृह्यते। निर्विकल्पकेनापि गृहीतमेव। सविकल्पा
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy