SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता १०६ रनवस्थाप्रसङ्गात् । स्वरूपेण च भेदे भावानामेवासौ किन्नाभ्युपगम्यते किं जात्यादिकल्पनया। . ___योपि दि ग म्ब रो मन्यते (1) “सर्वात्मकमेकं स्यादन्यापोहव्यतिक्रमे"। तस्माद् भेद एवान्यथा न स्याद् अन्योन्याभावो भावानां यदि न भवेदिति। सोप्यनेन निरस्तः। अभावेन भावभेदस्य कर्तुमशक्यत्वात्। नाप्यभिन्नानां हेतुतो निष्पन्नानामन्योन्याभावः सम्भवति। भिन्नाश्चेत् निष्पन्नाः कथमन्योन्या'भावः सम्भवति। भिन्नाश्चेन् निष्पन्नाः कथमन्योन्याभावकल्पनेत्युक्तं। 42b ननु सर्वे भावा भिन्ना इति यद्येतदनुमानवृत्तन्तदाश्रयासिद्धो हेतुः सर्वभावानां प्रत्यक्षाविषयत्वाद् (1) अत एव नैतत् प्रत्यक्षवृत्तं परामृश्यते। अन्यस्त्वाह। यद्यपि भावाः स्वभावेन भिन्नास्तेषान्तु जात्यादयो धर्मास्सन्त्येव प्रतीयमानत्वात् । तथापि निर्विकल्पकन्तु विज्ञानङ्गवादिषु सत्तामात्रं गुह्वाति न भेदं। अन्यस्माद् विशेषग्रहणमेव हि भेदग्रहणम्बिशेषश्च नाविकल्प्य गृह्यत इति सविकल्पकस्य विषयो न निर्विकल्पस्य। तदुक्तं ॥ "विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः । ते च केचित् प्रतिद्रव्यं केचिद् वहुषु संस्थिताः । तानकल्पयदुत्पन्नं व्यावृत्तानुगमात्मना। गवाश्वे चोपजातन्तु प्रत्यक्षन्न विशिष्यत" इति। तस्मान्न निर्विकल्पके प्रत्यक्षभेदावभास इति । योप्याह (1) सविकल्पकेनापि भेदो न गृह्यतेऽन्योन्याभावग्रहणनिमित्तको हि भावानां भेदग्रहोन्योन्याभावश्च भेदो न चाभावः। प्रत्यक्षग्राह्यो। न हि गव्यश्वोस्तीति प्रत्यक्षं परिच्छिनत्त्यतः सत्तामात्रस्यैव ग्राहकं प्रत्यक्षमिति। तदुक्तं म ण्ड ने न॥ "आहुविधातृ प्रत्यक्षं न निषेय विपश्चितः।। नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यत" इति। हास तदेतदुभयमप्ययुक्तं। सत्तामात्रस्याप्रतिभासनात् । गवारवादीनां स्वस्वरूपेणैव प्रतिभासनात्। तदुक्तं ॥ "तत्त्वयुक्तम्प्रतिद्रव्यं भिन्नरूपोपलम्भनात्। न ह्याख्यातुमशक्यत्वाद् भेदो नास्तीति गम्यत" इति। योप्याह (1) भावानाम्भेद एव नास्ति। तथा हि गोरश्वानुत्पादे यादृशं स्वरूपमश्वोत्पादेपि तादृशमेव नापरमधिकं किञ्चिज्जातमिति कथमतो भेदः ।
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy