________________
१०८
प्रमाणवात्तिकस्ववृत्तिटीका (१।४२) योहि भावमात्रानुरोधिस्वभावेऽपि अविनाभावं भावस्य वाञ्छति । तदभावे हि स्वभावस्य अभावः स्यात् अभेदतः। य एव भावः भावमात्रानुरोधी स्वभाव इत्युच्यते। स एव स्वयं वस्तुतोः भावः। स च आत्मानं, परित्यज्य कथं भवेत्॥
य एव तहि भेदाभावात् कृतकः स एवाऽनित्य इति प्रतिज्ञार्थंकदेशः हेतुः स्यात्। नैष दोषः।
सर्वे) भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥४२॥
साध्यसाधनयोरभेदतः। अभेदमेव य एवेत्यादिना व्याचष्टे। य एवानित्यादिको भावः कृतकभावमात्रानुरोधी स्वभाव इत्युच्यते स एव स्वयमन्यनिमित्तानपेक्षतया वस्तुतः परमार्थतो भावः कृतकत्वं स च भाव आत्मानं स्वभावभूतमनित्यत्वम्परित्यज्य कथम्भवेत्।
य एव तीति परः । “पक्षनिर्देशः प्रतिज्ञा" । तस्या अर्थों धर्मधर्मिसमुदायस्तस्यैकदेशः साध्यधर्मात्मको हेतुः स्यात्। तथा हि यावदुक्तमनित्यः शब्दोऽनित्यत्वादिति तावद् अनित्यः कृतकत्वादिति तथा चासिद्धो हेतुरिति भावः । । नैष दोष इति सि द्धा न्त वा दी। यस्मात् सर्वे भावा इत्यादि। अत्र प्रथमया कारिकया धर्मकल्पनाबीजं । द्वितीयया धर्मकल्पना। तृतीयया प्रतिज्ञार्थंकदेशतापरिहारश्च कथ्यते इति समुदायार्थः । सर्वे भावाः स्वभावपरभावाभ्यां व्यावृत्तिम्भजन्त इति घिनुण्। सर्वभावाः स्वभावेन स्वरूपेण न पररूपेण सजाती याद् विजातीयाच्च व्यावृत्ताः। स्वस्वभावव्यवस्थितेः। स्वस्मिन् स्वभावेऽवस्थानात् ।
नन्वश्वादिभ्यो गौर्जात्या भिन्नः। विषाणी गौर्द्रव्येण गोव्यक्त्यन्तराद् भिन्नः । शुक्लो गौर्गुणेन विषाणिनो गोव्यक्त्यन्तराद् भिन्न इति। एवमादिपरमाण्वन्तो भेदो जात्यादिविशेषणकृतः सर्वभावानां न स्वभावेनेति। __ अत्रोच्यते (1) न जात्यादिना तावद् भावानामभिन्नानाम्भेदः क्रियते। भिन्नाभिन्नभेदकरणे तत्र तस्याकिञ्चित्करत्वात्। नापि भिन्नानाम्वैयर्थ्यात्। नाप्येषाम्भेदव्यवहारः क्रियते स्वरूपभिन्नानाम्प्रत्यक्षेऽवभासादेव भेदव्यवहारसिद्धः ।
किञ्च। जात्यादीनामन्योन्यन्तद्वतश्च सकाशाद् भेदो नान्यतो जात्यादे
1Nyayasutra. I: I : 33.