________________
१०७
४. सामान्यचिन्ता नित्यत्वस्य दर्शनेऽपि अन्यत्र अन्यथा दृष्टः, क्वचित् नित्यत्वाभावेप्यदृष्टस्य दृष्टः।
- ४–सामान्यचिन्ता कार्यस्य हि तस्मादुत्पत्तेःहेत्वविनाभावो भवतु नाम' स्वभावे कथमविनाभावः ?
स्वभावेष्यविनाभावो भावमात्रानुरोधिनि । तदभावे स्वयम्भावस्याभावः स्यादभेदतः ॥४१॥
र्शनादर्शनाभ्यां नान्वयव्यतिरेकयोः प्रतिपत्तिः। किङ्कारणं (1) निःशेषिदर्शनादर्शनायत्तत्वाद् दर्शनमात्रप्रतिबद्धाया अन्वयव्यतिरेकप्रतिपत्तेः। एवं हि दर्शनमन्वयं साधयति यदि निःशेषे सपक्षे हेतोर्दर्शनं स्यात् । एवमदर्शनमपि व्यतिरेकं साधयेत् । यदि निःशेष साध्यव्यतिरेके हेतोरदर्शनं स्यात्। यथैकत्र धूमव्यक्तौ सकृदपि कार्यत्वसिद्ध्या सर्वत्र तथाभावः (।) एवं क्वचित् सपक्षासपक्षयोर्दर्शनादर्श नात् सर्वत्रान्वयव्यतिरेकनिश्चयो भविष्यतीत्यपि मिथ्या (1) यस्मात् क्वचिद् अमूर्तत्वे आकाशादिगते नित्यत्वस्य दर्शने। परप्रसिद्ध्या चैतदुच्यते। अन्यत्र सुखादी। अन्यथेत्यनित्यत्वे हेतोरमूर्त्तत्वस्य दृष्टः कारणादेकत्र दर्शनं न सर्वत्र तथाभावसाधनमतो दर्शनमन्वये व्यभिचारि। तथा क्वचिद् घटादौ नित्यत्वाभावेप्यदृष्टस्यामूर्तत्वस्य पुननित्यत्वाभाव एव सुखादौ दृष्टरतो विपक्षकदेशादर्शनमसाधनं व्यतिरेकनिश्चये तस्माद्धेतुफलभावनिश्चयादेवान्वयव्यतिरेकयोनिश्चयः।
स्वभाव इत्यादि परः। इदानीमिति कार्यहेतावविनाभावे साधिते संप्रति स्वभावहेतौ कथं साध्येनाविनाभावः।
ननु स्वभावे भावोपि भावमात्रानुरोधिनि हेतुरि'त्यादिना प्रागेव स्वभाव- 42a हेतावविनाभावः साधितः।
सत्यं । एवन्तु मन्यते (1) यथाभूते स्वभावे . तन्मात्रभाविन्यविनाभावो वणितस्तत्र प्रतिज्ञार्थंकदेशता प्राप्नोतीति। सिद्धान्तवाद्यप्यनन्तरेणान्यापोहप्रसाधनेन प्रतिज्ञार्थंकदेशतापरिहारम्मन्यमानः तन्मात्रानुरोधिन्येवाविनाभावं पूर्वोक्तमनुवदति। स्वभावप्यविनाभाव इत्यादि। स्वभावेपि स्वभावहेतावप्यविनाभावः (1) कस्मिन् साध्ये (1) भावमात्रानुरोधिनि। यो हीत्याद्यस्यैव व्याख्यानं । अविनाभावो भावस्येति कृतकत्वादेः । यस्मात् तवभावे भावमात्रानुरोधिसाध्यधर्माभावे भावस्य हेतुत्वेनोपात्तस्याभावः स्यात् । किं कारणं (1)
1 Yin-la-rag-na.