________________
434a
प्रमाणवार्त्तिकस्ववृत्तिटीका ( ११४० )
यदपि गोमया' देर्विजातीयात् शालूकादेरुत्पत्तिर्दृष्टा । तत्राऽपि तथाऽभिधानेऽपि स्वबीजप्रभवात् अस्त्येव स्वभावभेदः । हेतुस्वभावभेदात् । यथा कदया बीजकन्दोद्भवायाः । स्फुटं एवैवं लोके भिन्नाकारद्वारेण विभागः । इत्थं सुविवेचिताकारं कार्यं हि कारणाव्यभिचारि ।
१०६
अन्वयव्यतिरेकाद् यो यस्य दृष्टोनुवर्तकः । स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः ||४०||
इति संग्रहश्लोकः ।
तस्मात् सकृदपि दर्शनादर्शनाभ्यां कार्यकारणभावसिद्धेः। ततः तत्प्रतिपत्तिर्नान्यथा अन्वयव्यतिरेकयोर्निःशेषदर्शनादर्शनायत्तत्वात् निःशेषं क्वचित्
यत्किञ्चिदेतत् । यतश्च सामग्रीजनिकाऽत एव सहकारिणामपर्यायेण जननं । परिपाट्या जननं नास्तीत्यर्थः ।
यदपीत्यादिना विजातीयादुत्पत्तिमाशंक्य परिहरति । नान्यादृशात्तादृ (श) न्तस्योत्पत्तिरिति यदुक्तन्तदेवात्र दर्शयतीत्यर्थः । आदिशब्दाद् गोशृङ्गाच्छरो 41b गोमयाद् वृश्चिक: (1) तत्रापीति विजातीयात् कार्योत्पत्तावपि । तथाभिधानेपीति विजातीयोत्पन्नस्य शालूकादेः शालूकादिरित्यभिधानेपि स्ववीजाच्छालूकादिलक्षणात् प्रभव उत्पत्तिर्यस्य तस्मात् स्ववीजप्रभवाच्छालूकादेः सकशादस्त्येव स्वभावभेदः । किङ्कारणं ( 1 ) हेतुस्वभावभेदात् । हेतोः सामग्रीद्वयलक्षणस्य : स्वभावभेदात् । बीजात् कन्दाच्चोद्भवो यस्याः कदल्याः सा तथा । हेतुत्वभेदात् परस्परभिन्ना ।
सा च
न चायम्भेदः साधनीय इत्याह । स्फुटमित्यादि । विवेचयति भेदे वा भावस्येति । सुविवेचिताकारं भ्रान्तिर्हेतुभ्यः सदृशाकारेभ्यो विभागेन निश्चिताकारं ॥
तद्भाव एव भावोऽन्वयः । तदभावे चाभाव एव व्यतिरेकः । अन्वयो व्यतिरेकश्चान्वयव्यतिरेकन्तस्मात् । यः कार्यस्वभावो यस्यानुवर्त्तनीयस्य कारणस्यानुवर्त्तको दृष्टस्तस्यानुवर्त्तकस्य स्वभावस्तद्धेतुः सोनुवर्त्तनीयः कारणात् सा हेतु - र्यस्येति विग्रहः । यदा तु कारणापेक्षयोच्यते तदा स्वभावस्तस्यानुवर्त्तनीयस्याग्न्यादेस्तद्धेतुस्तस्य कार्याभिमतस्य धूमादेर्हेतुः । यतश्चैवं परम्परापेक्षया कार्यकारणयो ( : ) स्वभावनियमः । अतः कारणाद् भिन्नाद् विजातीयान्न सम्भवः ।
तस्मात् सकृदपि दर्शनादर्शनाभ्यामिति यथोक्ताभ्यां । प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धेः कारणाद् भवति ( 1 ) ततः कार्यकारणभावसिद्धितः तत्प्रतिपत्तिरन्वयं व्यतिरेकप्रतिपत्तिर्नान्यथेति कार्यकारणभावनिश्चयन्त्यक्त्वा केवलाभ्यान्द