________________
३. व्याप्तिचिन्ता
१०५
भावा। सैवाऽनुमीयते। सैव च सामग्री स्वभावस्थित्याकार्यस्य आश्रयः। अत एव सहकारिणामपर्यायेण जननम् ।
त्वन्तस्यानिश्चयात्। यश्च प्रतिबन्धो गृह्यते स पूर्वधूमहेतुरेव (1) 4I कथन्ततोग्न्यादिसामग्र्या अनुमानमित्यत आह। सैव चेत्यादि कार्यप्रबन्धस्य स्वभावस्थितेः। आश्रय आद्यं कारणं । सामग्रीमन्तरेण धूमसन्तानस्यैवाभावात् । ततो धूमसन्तानमग्निकार्यत्वेनैकीकृत्य दहनादिसन्ततेः कारणभूताया अनुमानं । न हि क्षणविभागेनार्वाग्दर्शनस्य व्यवहारः सम्भवतीति।
स्यादेतद् (1) अतीव एव वह्निरनुमीयते। न च तेनार्थक्रियार्थिनः किंचित् प्रयोजनमित्येतदपि चोद्यमानेनैव परिहृतं। तदा चायमर्थः (1) सैव च सामग्री प्रबन्धेन प्रवर्त्तमाना कार्यस्वभावस्थितेः कार्यप्रबन्धवृत्तेर्हेतुः पूर्वपूर्वमग्न्यादिक्षणं प्रतीत्योत्तरोत्तरस्य धूमक्षणस्योत्पत्तेः। न ह्ययं नियमो यदेक एव धूमक्षणोग्निना जन्यो नापर इति । यावदिन्धनस्य न सर्वथा भस्मीभवनन्तावद् धूमक्षणानामुत्पत्तिरविरुद्धा। तस्मादुत्तरोत्तरदहनक्षणजननमर्थेनप्रबन्धप्रवृत्तेनाग्निना यथाभूतो धूमप्रबन्धो जनितः प्रत्यक्षावधारितस्तथाभूतमन्यत्रावधार्यार्थक्रियासमर्थदहनसन्तानस्यानुमानन्तदर्थिनो न विरुद्धम् (1) अन्य एव च स्वभावो विच्छिन्नदहनसन्तानस्य धूमस्यान्य एव विच्छिन्नदहनसन्ततेर्वासगृहादिस्थस्य। स्फुटश्च तयोर्भेदमवधारयति लोक इति कुतो व्यभिचारः ।
अथवाऽन्यथा व्याख्यायते।
ननु सामग्री समग्रेभ्योन्या। तस्याश्चैकत्वाद् एकमेव कार्यमुत्पद्यतेऽन्यथा समग्राणां प्रत्येकं सामर्थ्यात् कार्यबहुत्वम्पर्यायेण चैककार्यजनकत्वं स्यान्न च भवति। तस्मात् कथमेकजनकत्वमित्याशंक्याह।
सैव चेत्यादि। सैव च सामग्रीति समग्रा एव सामग्री शब्देनोच्यन्ते । किं कारणं। स्वभावस्थित्या स्वरूपसन्निधानेन कार्यस्याश्रयो भवति यतः।
एवंम्मन्यते। यदि सामग्र्या एव कार्योत्पत्तिस्तदा समग्राणामकारकत्वं स्यात् । तथा च प्रतीतिबाधा। समग्राणामपि कारकत्वे सुतरां कार्यबहुत्वं स्यात् । पर्यायेण चैककार्यजनकत्वं स्यात् । न च सामग्रीबलात्तेषामेकरूपता। सामग्र्या एवाभावप्रसङ्गात्। तस्मात् ते समग्राः स्वहेतुभ्य एवैककार्यकरणे नियता उत्पन्नाः सामग्रीशब्देनोच्यन्ते। न च बहूनामेककार्यकरणे बाधकमस्ति। न चास्माकङ्कारणमेव कार्यो भवतीति मतं येनानेकस्यैककार्यत्वम्विरुध्येत। यथा चैककार्य त्येप्रकस्य प्राग्भाव एव कारणत्वन्दृष्टत्वात् तथानेकस्यापि (1) यथा वा त एव समग्राः संयोगलक्षणामेकां सामग्रीजनयन्ति। तथै कमपि कार्य किन्न कुर्वन्तीति (1)
१४