________________
१०४ - प्रमाणवात्तिकस्ववृत्तिटीका (१।३६)
धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् । अधूमहेतो मस्य भावे स स्यादहेतुकः ॥३९॥
इति संग्रहश्लोको। कथमिदानी भिन्नात् सहकारिणः कार्यस्योत्पत्तिः। यथा चक्षुषो रूपादेर्विज्ञानम्।
न वै किञ्चित् तत्स्व (भावं) एकैकं जनकम्। किन्तु सामग्री जनिका तत्स्व
अग्निस्वभाव इति धूमजननस्वभावो यदीत्यर्थः। अग्निरेव स शक्रमूर्द्धा धूमजननस्वभावत्वात्। अथानग्निस्वभावोसौ शक्रमूर्द्धा। तत्रेति शक्रमूर्द्धनि । कस्मान्न भवेदित्याह। धूमेत्यादि। हि यस्मात् । धूमहेतुस्वभावो यस्येति विग्रहः । कुत एतत् तच्छक्तिभेदवान्। तया धूमजनिकया शक्त्या करणभूतया वस्त्वन्तरात् खद्योतादेर्भेदवान् विसदृशः। अधूमहेतोरित्यवह्निस्वभावाद् धूमस्य भावे उत्पादेऽभ्युपगम्यमाने स धूमः स्यादहेतुकः। यथोक्तं प्राक् ।
कथमित्यादि परः। इदानीमित्येकस्य धूमादेविजातीयादुत्पत्त्यनभ्युपगमे। कथम्भिन्नात् परस्परविजातीयात् । सहकारिणः सकाशादेकस्य कार्यस्योत्पत्तिः। कथमित्याह। यथेत्यादि। आदिशब्दाद् आलोकमनस्कारादयः। एवञ्च सति चक्ष: स्वभावादप्युत्पद्यते विज्ञानम चक्षुःस्वभावादपि रूपमनस्कारादेर्न चेदमहेतुकं । एवं धूमोप्यग्नेरुत्पद्यतामनग्नेश्च शक्रमूर्ध्नः । न चाहेतुको भविष्यतीति चोदको मन्यते।
न 4 किंचिदित्यादिना प्रतिविधत्ते। चक्षुरादिषु तत्स्वभावं जनकस्वभावं सदेके परस्परानपेक्षं न वै जनक (1) यदि हि स्यात् तदा प्रत्येक कारणव्यभिचारादहेतुकं स्यात्। किन्तु सामग्री जनिका। तत्स्वभावा जनकस्वभावा। सामग्री जनिकेत्येतावतैव तत्स्वभावत्वं लब्धमतत्स्वभावस्याजनकत्वात् तत्कि स्वभावेति पृथगुच्यते। सत्यं किन्त्ववधारणार्थमुक्तं। सामग्र्यवस्थायामेव तत्स्वभावता। न पूर्वन्न पश्चान्न पृथगिति। स्वहेतुसामर्थ्यनियतसन्निधीत्येकस्मिन् कार्ये समस्तावन्ये कारणानि हेतुरिति समुदायार्थः।
केचित्तु वा शब्दं पठन्ति (1) सामग्री जनिका तत्स्वभावा: वेति। अत्र तु वाशब्दस्य न किंचित् प्रयोजनमित्य (प)पाठ एवायं। यदि सामग्रीत्युक्त्वा सामग्र्यन्तरादपि चक्षुर्विज्ञानं स्यात्तदा भिन्नादुत्पादेरहेतुकत्वम्भवेत्। सैव सामग्र्यनुमीयते। कार्येण न प्रत्येकं कारणादन्यतो नास्ति व्यभिचार इति भावः ।
स्यादेतद अग्न्यादिसामग्रया आद्य एव धूमक्षणो जनितो न च तस्य लिङ्ग