________________
३. व्याप्तिचिन्ता
१०३
हारेण अन्यत्र देशकालयोः सद्भावेन तत्सापेक्ष इति भवति । तथा हि तथा वृत्तिरपेक्षत एव । तत्कृतोपकारानपेक्षस्य हि तन्नियमायोगात् । तद् देशकालनियमात् । यत्र धूमो दृष्टः सकृद् वैकल्ये च न दृष्टः तस्य हि तज्जन्यः स्वभावः। अन्यथा कदाचिद प्यभावात् स तत्प्रतिनियतोऽन्यत्र कथं भवेत् । भवन् वा न धूमः स्यात्। 433b तज्जनितः स्वभावविशेषो धूमः। तथा हेतुरपि तथाभूतकार्यजननस्वभावः। यदि तस्याऽन्यतोऽपि भावः, तदा न स स्वभाव इति सकृदपि न धूमं जनयेत् । न च स धूमः, अधूमजननस्वभावाद् भावाद्। तत्स्वभावत्वे च स एव नेति अव्यभिचारः॥
अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । अथानग्निस्वभावोसौ धूमस्तत्र कथं भवेत् ॥३८॥
यमायोगादिति । तस्मिन्नव देशादौ तेन न भाव्यमिति नियमायोगात् (1) तदिति तस्माद् देशकालग्रहणमुपलक्षणं द्रव्यस्यापि परिग्रहः। यत्रेति देशादौ दृष्टः सकृदिति। यथोक्तेन प्रत्यक्षेण येषां सन्निधाने दृष्टस्तेषामेवान्यतरवैकल्ये च पुनर्न दृष्टः । अन्यथेति यदि तज्जन्योस्य स्वभावो न स्यात् स इति धूमस्तत्प्रतिनियतोग्न्यादिकसामग्री हि यतः। अग्नेरन्यत्र कथम्भवेन्नैव भवेत् । भवन् वा न धूमः स्यात् । यस्मात् तज्जनितो ह्यग्निजनितो हि स्वभावविशेषो धूम इति। तथा हेतुरपि वह्निस्तथाभूतकार्यजननस्वभावो धूमजननयोग्यतास्वभावो धूमरहितावस्थायामप्यस्त्येव योग्यता कारणभूतेति। तेन नाऽव्यापि लक्षणं । एवमग्निधूमयोः 40b परस्परापेक्षया नियतस्वभावत्वे प्रत्यक्षव्यवस्थापिते।
यदि तस्य धूमस्याग्नेरन्यतोपि भाव इष्यते तदा न स धूमजननः स्वभावस्तस्यावह्नः। तथा ह्यनग्नेर्यदा धूमस्योत्पत्तिस्तदानग्नेरेव धूमजननः स्वभावो जातः । यश्चानग्नेः स्वभावः स कथमग्नेः स्यात्। ततश्चाधूमजननस्वभावत्वादग्नेः सकृदपि न धूमं जनयेत्। धूमस्यापि धूमस्वभावता न स्यादित्याह। न चेत्यादि। अग्नेरन्यतो भवन्न वा स धूमः (1) किं कारणम् (1) अधूमजननस्वभावादनग्नेर्भावादुत्पत्तेः। तत्स्वभावत्वे चानग्नेरपि धूमजननस्वभावत्वे चाभ्युपगम्यमाने। स एवाग्निधूमजनकरूपत्वादस्य इत्यनेन द्वारेणाव्यभिचारो
धूमस्य॥
सुखग्रहणार्थं अग्निस्वभाव इत्यादि श्लोकद्वयमाह।
1Lan-hgah.