________________
१०२
प्रमाणवात्तिकस्ववृत्तिटीका (१।३७) अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥३७॥ स हि धूमः कारणमन्तरेण भवेत् चेत् , तहि अपेक्षाविरहात् न कदाचिन्न भवेत् । तद्भावे वैकल्याभावात्। इष्टकालवत्। तदापि च न भवेत्। अभावकालाविशेषात् । अपेक्षया हि भावाः कादाचित्का भवन्ति। भावाभावकालयोः तद्भावयोग्यतायोग्यताभ्यां योगात्। देशकालयोः तुल्ययोग्यताऽयोग्यतयोहि तद्वतेतरयोनियमायोगात्। .
सा च योग्यता हेतुभावतोऽन्या चेत् । तस्माद् देशकालयोः क्वचित् परि
तथा चेत्यहेतुकत्वे सति नित्यं सत्त्वमसत्त्वम्वा धूमस्य स्यात् । किङ्कारणम् (1) अहेतोर्भावस्य स्वनिष्पत्तावन्यानपेक्षणा (त्)। कारणान्तरानपेक्षणात्। कारणान्तरानपेक्षत्वेपि कादाचित्कं स्वभावतो भविष्यतीति चेदाह। अपेक्षातो हीति । . एतदुक्तम्भवति (1)अनिष्पन्नस्यासत्त्वादेव कथं स्वभावतः कादाचित्कत्वं निष्पन्नस्य त्वस्ति स्वभावः केवलं सैव निष्पत्तिः कथं क्वचिद् भवतीति चोद्यते। स होत्यादिमैतदेव व्याचष्टे। न कदाचिन्न भवेत् सर्वकालम्भवेत। किङ्कारणन्तभावे धूमस्वभावस्य भावे। कारणानपेक्षत्वेन वैकल्याभावात् । इष्टकालवत् । तदापि चेति दृष्टकालेपि धूमो न भवेत् । धूमाभावकालाविशेषात्।
पश्चादर्द्धम्विभजन्नाह। अपेक्षया हीति। योग्यदेशकालापेक्षया। यस्मात् कार्यस्य यो भावाभावकालौ तयोर्यथाक्रमन्तभावस्य कार्योत्पादस्य ये योग्यतायोग्यते ताभ्यां योगात्। कालग्रहणमुपलक्षणपरमेवं देशद्रव्ययोरपि वाच्यं। अथैवं नेष्यते। तदा तुल्ये योग्यतायोग्यते ययोः कार्यभावाभाववतोदेशकालयोस्तयो. स्तद्वत्तेतरयोनियमायोगात्। कार्यकालस्यैव तद्वत्ता। कार्यवत्ता। तदन्यस्येतरा। अकार्यवत्तेत्यस्य नियमस्यायोगात्। द्वावपि तौ कार्यभावाभावकालौ कार्यवन्तौ स्यातां योग्यतासादृश्यात्। न वा। तुल्यत्वादयोग्यतायाः। तस्मात् तद्भावकालस्यैव योग्यता। तां वापेक्षमाण (1) भावाः कादाचित्का भवन्ति ।
भवतु नामेष्टस्य देशकालादेर्योग्यता। न तावता हेतुभाव इत्यत आह । सा चेत्यादि। यत एवमहेतुत्वे नित्यं सत्त्वासत्त्वं स्यान्न च भवति।
तस्मादित्यादि। यत्परिहारेण प्रवर्तते तदनपेक्षः। यत्र च वर्त्तते तत्सापेक्षः । यदि नाम क्वचिद् देशादौ वृत्तस्तथापि कथन्तत्सापेक्ष इति चेदाह। तथा हीति। तथा वृत्तिरित्येकपरिहारेणान्यत्र वृत्तिः। देशादिकमपेक्षत एव भावः (।) तेन तु देशादिना न तस्योपकारः क्रियत इति चेदाह । तत्कृतोपकारेत्यादि। तन्निय