________________
३. व्याप्तिचिन्ता
१०१ न वै स एव तादृशस्य भावात् इति चेत् । अन्यावृशाद् भवन् कथं तावृश इति। 'तादृशाद्धि भवन् तादृशः स्यात् । अन्यादृशादपि यदि तादृशो भवेत्, तच्छक्तिनिय- 433a माभावात् न हेतुभेदो भेदक इति अकारणं विश्वस्य' कैवरूप्यं स्यात् । सर्व वा सर्वस्माज्जायेत। तस्मात् कारणस्य भेदाभेदाभ्यां कार्यस्य भेदाभेदौ न स्याताम् । तद् धूमदृष्टाकार विजातीयादर्थादुत्पद्यमाने अहेतुकत्वप्रसङ्गात् ॥ नैतदेवम्।
नित्यं सत्त्वमसत्त्वं वा (हेतो)रन्यानपेक्षणात् ।
तेन यादृशो धूमभेद एकस्मादग्निभेदादुत्पद्यमानो दृष्टस्तादृशस्य धूमभेदस्य तादृशादेवाग्निभेदादुत्पत्तिः। यस्त्वनग्नेरुत्पन्न: सोन्यादृश एव। वाष्पादिवत्। । नन्वग्निजन्येन धूमक्षणेन तादृशो धूमक्षणजन्यो धूमक्षणस्तेनान्यादृशादपि तादृशो भवतीति चेत् (1)न। अग्निजन्यस्य हि धमक्षणस्याग्निजन्य एवान्यो धूमक्षणस्तादृशो भवति नान्यः। न हि वाष्पादीनान्तादृशत्वाध्यवसायेपि तादृशत्वम्भवति । धूमक्षणजन्यस्यापि धूमक्षणस्यान्यो धूमक्षणजन्य एव धूमक्षणस्तादृशो भवति नान्यः। तस्मात्तादृशादेव तादृशोत्पत्तिरिति कुतो व्यभिचारः। तेन ।
"क्षणिकत्वे कथम्भावाः क्वचिदायत्तवृत्तयः । प्रसिद्धकारणाभावे येषाम्भावस्ततोन्यतः।। ततश्चानग्नितो धूमाद् यथा धूमस्य सम्भवः ।
शक्रमूनस्तथा तस्य केन वार्येत सम्भव" इति (॥) निरस्तं। प्रथमस्य ह्यग्निजन्यस्य धूमक्षणस्यापरोग्निजन्य एव धूमक्षणस्तादृशो धूमक्षणजन्यस्य धूमक्षणस्य द्वितीयस्यान्यो धूमक्षणजन्य एव द्वितीयो धूमक्षणस्तादृशो भवति (1) तथा तृतीयादिक्षणेष्वपीति क्षणापेक्षयाप्यव्यभिचारस्तादृशस्य । एतमेवाह। तादृशाद्धि भवस्तादृशः स्यात् । अन्यादृशादप्यवह्निसदृशादपि यदि तादृशो भवेद् वह्निजनितधूमतुल्यस्वभावो भवेत्। तच्छक्तिनियमाभावात् । सदशासदृशयोः कारणयोर्या शक्तिस्तस्या यो नियमः सदृशी सदृशमेव जनयत्यसदृशी विलक्षणमिति तस्याभावात् कारणान्न हेतुभेदः कार्यस्य भेवक इति कृत्वाऽकारणम्विश्वस्य वैश्वरूप्यं स्यात् । - यतः कुतश्चित्कारणादुत्पत्ते हेतुकत्वमिति चेदाह । सर्व वा सर्वस्मादित्यादि। अशक्तादपि चेदुत्पत्तिः सर्व सर्वस्मा'ज्जायेत (1) 40a न चैवं। तस्मादित्यादि। तन्न धूम इति। तदिति तस्माद् यत उत्पद्यमानो धूमो दृष्टः स दृष्टाकारो वह्निः। तद्विजातीयादवढेरित्यर्थः ।
1 Tham-hdag-gi.