________________
१००
प्रमाणवान्तिकस्ववृत्तिटीका ( १/३६ )
कार्यस्य हि स्वकारणाभावे अकारणमेव स्याद् । न हि यद् यवभावे भवति तत् तस्य कारणम् । तद् अग्निमन्तरेणाऽपि धूमस्य भावात् तद्धेतुर्न "स्यात् ।
अन्यहेतुकत्वात् नाहेतुकत्वमिति चेत् । नैतदेवम् । तत्राऽपि तुल्यत्वात् । तदभावेऽपि अग्नौ भवतीति तदप्यन्यत् स्यात् । अतज्जननस्वभावत्वात् एवं भवन् (एव) भवेत् । अतत्स्वभावस्याजननात् तस्याहेतुता स्यात् ।
किङ्कारणम् (1) अकारणादग्नेः सकृदपि न केवलं भूयोऽभावात् । न हि बालुकाभ्यः सकृदपि तैलम्भवति । कार्यस्येत्यादिना कारिकार्थमाह । न हीत्याद्यस्यैव समर्थनं ।
एतेन व्याप्तिः कथिता भवति च धूमोग्निमन्तरेण व्यभिचारवादिनः । अनेन च पक्षधर्मः कथितः। तदिति तस्मादग्निमन्तरेण भावान्न तद्धेतुर्नाग्निहेतुस्तथा चाहेतुः स्यादिति भावः ।
अन्यहेतुकत्वादि वह्नेर्यदन्यच्छक्रमूर्द्धादि । तद्धेतुकत्वाद् धूमस्य नाहेतुकत्वं इति चेत् ।
नंतदेवन्तत्राप्यर्थान्तरे हेतौ कल्प्यमाने तुल्यत्वात् । तथा हि ( 1 ) तदभावेप्यन्यकारणाभावेपि पुनरग्नौ भवतीति तदप्यन्यत्कारणं न हेतुः स्यात् । अपि च योसौ 39b वह्निर्यच्च ततो न्यत्कारणन्तत्किं धूमजननस्वभावमाहोस्विन्न ।
यद्यजनन
स्वभावन्तदा कथन्ततोग्नेरन्यतो वा शक्रमूर्द्धादिरतज्जननस्वभावत्वात् अधूमजननस्वभावाद्धूमो भवन्नैव भवेत् । किं कारणम् ( 1 ) अतत्स्वभावस्य स्वयमधूमजननस्वभावस्याजननात्तस्य धूमस्याहेतुता स्यात् ।
अथ धूमजननस्वभावोन्यस्तदा द्वयोरपि वह्नित्वं धूमजननस्वभावलक्षणत्वाद् वह्नेः । एतच्चोत्तरत्राभिधास्यते ।
न वै स एवेत्यादि व्यभिचारवादी । अथवाग्निजनितो धूमः स एवान्यतो भवतीत्येवं नोच्यते । यदि स एवान्यतः स्याद् भवेदहेतुत्वन्तादृशस्य वह्निजनितधर्मस्वभावतुल्यस्यान्यतो भावात् ।
यादृशादित्यादि सिद्धान्तवादी । तत्कि कार्यसदृशं कारणमिष्यते येनैवमुच्यतेन्यादृशाद् भवन् कथन्तादृश इति । नान्यार्थत्वात् । यो हि धूम 2जनको वह्निर्दृष्टस्ततो विसदृशाद् भवन् धूमः कथन्तादृशो भवति वह्निजनितधर्मतुल्यस्वभावो भवति ।
एतदुक्तम्भवति । यथा धूमभेदानान्तार्ष्णपर्णादीनां परस्परापेक्षया तादृशत्वतथाग्निभेदानामपि तार्ष्णपार्णादीनां धूमजनकानान्तादशत्वं परस्परापेक्षयैव ।