________________
३. व्याप्तिचिन्ता स भ(वंस्तद)भावे(पि) हतुमत्तां विलंघयेत् ॥३६।। सकृदपि तथा दर्शनात् कार्य सिध्यति । 4 अकारणात् सकृदपि अभावात् ।
''अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात् । सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्ठितेरि"ति ॥ (प्र. स.) तेन स्वलक्षणानां सम्बन्धग्रह एव सामान्यानां सम्बन्धग्रहो न त्वन्यः।
नन्वनुमानवादिना बौ द्धे न यावन्ति स्वलक्षणानि त्रैलोक्ये । तानि सर्वा'ण्यग्नि- 39a व्याप्तानि गृहीतव्यान्येकस्याप्यग्रहीते नैवानकान्तिको हेतुः स्यात् (1) न चैवं प्रत्यक्षं कर्तुं शक्नोति सन्निहितविषयत्वात् । न वान्येषां स्वलक्षणानामनुमानतः साध्यधर्मेण व्याप्तिग्रहणमनवस्थाप्रसङ्गादिति।
तदयुक्तं यतः (1) प्रत्यक्षमग्निभेदसन्निधान एव धूमभेदात् प्रतिपत् । एष्वधूमव्यावृत्तं रूपं धूममनग्निव्यावृत्ताग्निमात्रकार्यमेवेत्यवधारयति (1) यथात्र तथान्यत्रापि देशा दावेतद् रूपमग्निजन्यमेवेति चावधारयत्यन्यथावाग्निसम्बन्धितया न प्रत्यक्षेण गृह्यते। एवमग्न्यनग्निकार्यत्वेस्योभयसम्बन्धितया प्रतीतिः स्यान्नाग्निसम्बधितयैव। प्रतीयते च (।)तस्मादन्यत्राप्येतद्रूपमग्नेरेव भवतीति निश्चयात् कुतो धूमस्याग्निव्यभिचारः। यश्च तद्रूपम्वाष्पादिविलक्षणमवधारयितुं शक्नोति तस्यैवैतदनुमानं नान्यस्य । सामान्यव्याप्ति ग्रहणवादिनापि गोपालघटिकादावग्निमन्तरेण धुमसामान्यदर्शनाव्यभिचारशंकयाग्निनियतधूमसामान्यावधारणेनैव तदनुमानम् (1) अग्निनियतधूमसामान्यावधारणञ्चाग्निसंम्बद्धधमाव्यक्त्यवधारणपरस्सरमेव। न च सर्वत्र देशादावाग्निसम्बद्धधूमव्यक्तिविशिष्टस्य धूमसामान्यस्य ग्रहणङ्केनचित् प्रमाणेन सम्भवति । नापि महानसादावग्निसम्बद्धधमव्यक्तिविशिष्टं धमसामान्यं प्रतिपन्नमन्यत्रानयायिव्यक्तेरनन्वयात। यच्च धमसामान्यमनुयायि तन्नाग्न्यव्यभिचारि । तस्मात् सामान्यव्याप्तिग्रहणवादिनोपि कथं विशिष्टं धमसामान्यं सर्वत्राग्निना व्याप्तं प्रतिपन्नमिति तुल्यं चोद्यं ।
अथ धमस्यान्यत्राग्निजन्यत्वे न किंचिद बाधकमस्ति तदेवेदमिति च प्रतीतेस्तत्सामान्यम्प्रतिपन्नमिष्यतेऽस्माकमपि तदेवेदमिति प्रत्ययस्योत्पत्तेस्तत्प्रतिपन्नमिष्यत इत्यावयोः को भेद इति (1)
यत्किञ्चिदेतत्। एतमेवार्थन्दर्शयन्नाह । स धूमो भव॑स्तदभावेऽग्न्यभावे हेतुमत्ताम्बिलंघयेवहेतुक: स्यात्। यद्वा स धूमोग्निसम्बन्धितया प्रतीतस्तवभावेग्न्यभावे भवन् हेतुमत्तामग्निसम्बन्धितया न प्रत्यक्षण प्रतीयेत । प्रतीयते च । तस्मात् सकृदपि न केवलं भूयस्तथादर्शनादित्यनन्तरोक्तात् प्रत्यक्षानुपलम्भात।