________________
प्रमाणवात्तिकस्ववृत्तिटीका (१।३५)
ग्राह्यः कार्यकारणभावः केवलं कार्यदर्शने सतीदमस्य कार्यकारणं चेति व्यवह्रियते। यतो नाकार्यकारणयोः कार्यकारण भावः सम्भवति। नापि कार्यकारणभावयोगात्तयोः कार्यकारणताऽभिन्ना कर्तुं शक्यते विरोधात् । नापि भिन्ना तयोः स्वरूपेणाकार्यकारणता प्रसङ्गात्। स्वरूपेण कार्यकारणयोरपि किं कार्य कारणभावेनार्थान्तरेण कल्पितेन स्वरूपेणैव कार्यकारणरूपत्वात् (1) तस्मात् पूर्वोत्तरभाव एव तयोः कार्यकारणभावः । तेन पूर्वके वस्तुनि गृह्य माणे कार्यप्रत्यानन्तर्यकारणात्मकं गृहीतमेव। उत्तरेण च ज्ञानेनोत्तरम्वस्तु कारणानन्तरं गृह्यमाणं कार्यात्मकमेव गृह्यते (1) तदानन्तर्यस्य तदभिन्नस्वभावत्वात् । अत एवास्मादनन्तरमिदम्भवतीति स्मरणमपि भवत्यानन्तर्यस्यानभतत्वादिति।
अवि द्ध क र्ण स्त्वाह। “अविनाभावित्वं एकं दृष्ट्वा द्वितीयादिदर्शने सति सिध्यति (1) न च क्षणिकवादिनो द्रष्टुरर (?) वस्थानमस्ति। न चान्येनानुभूतेथैन्यस्याविनाभावित्वस्मरणमस्त्यतिप्रसङ्गादि"ति (1)
तदयुक्तं। प्रथमादेरर्थक्षणस्य प्रथमादिज्ञानक्षणेन ग्रहणादेकसन्ततिपतितानां कार्यकारणभावेन स्मरणसम्भवाच्च। यथा च क्षणिकपक्षे कार्यकारणभावस्तथोक्त मेव वक्ष्यति।
नन्वेवमपि क्षणानामनिश्चयेन कथं कार्यकारणभावनिश्चयो न च सन्तानेन तन्निश्चयस्तस्य सन्तानिभ्यो भिन्नस्याभावात् केवलं सन्तानिन एव पूर्वापरकालभाविनः (1) तत्र च यदैकः क्षणो न तदान्य इति एकक्षणावभास एवेति कथं सन्तानावभासः (1) तदभावात् कथं कार्यकारणभाव इति (1)
तदयुक्तम् (।) एकपरमाण्वात्मकस्य वस्तुनो भावात् स्थूलात्मनां सन्तानिनां नैरन्तर्यप्रतिभास एव सन्तानप्रतिभासस्तत्र च क्षणविवेकानवधारणेन सादृश्येन चैकत्वाध्यवसायादेकसन्ततिवर्तिनां क्षणानां न कार्यकारणभावनिश्चयः। भिन्नसन्तानवर्तिनां तु सन्तानप्रवृत्त्या विजातीयत्वाद् भवति तन्निश्चयस्तेनाग्निसन्तानपूर्वकस्य धूमसन्तानस्य प्रतीतेरग्निधूमसन्तानयोः कार्यकारणभावनिश्चय उच्यत इति यत्किञ्चिदेतत्।
अध्य य न स्त्वाह । “स्वलक्षणयोः कार्यकारणभावग्रहणे सति कथं सामान्ययोर्गम्यगमकभावो भिन्नत्वादि"ति । • तदप्ययुक्तम् (1) अनेकस्वलक्षणात्मकस्य सामान्यस्याभ्युपगमात् । तदुक्तम् (।)
1 Pramānavārtika 1:33.