________________
३. व्याप्तिचिन्ता
ऽनुपलम्भः। तत् तस्य कार्यम्। तच्च धूमेऽस्ति ॥
दहेतुत्वाददृश्यहेतुत्वाद्वोच्यते । तत्र न तावत् प्रथमः पक्ष इति तृ ती ये परिच्छे दे "अशक्तं सर्वमिति चेदि"त्यत्रान्तरे (प्र०वा० ३।४) वक्ष्यामः । नाप्यहेतुत्वमिति तत्रैव वक्ष्यति । नाप्यदृश्यहेतुत्वं धूमस्य। अग्न्यादिसामग्र्यन्वयव्यतिरेकानुविधानात् । ____ अथ स्याद् (1) अदृश्यस्यायं स्वभावो यदग्न्यादिसन्निधान एव धूमं कर्पूरादिदाहकाले सुगन्धादियुक्तं च करोति नान्यदेति। तत्किमग्निमन्तरेण कदा चिद् धूमोत्पत्तिर्दष्टा येनैवमुच्यते। नेति चेत्। तत्कथन्नाग्निकार्यो धूमस्तद्भावे भावात्। धूमोत्पत्तिकाले चाग्निः सर्वदा प्रतीयमानोपि काकतालीयन्यायेनावस्थित इत्यलौकिकोयं व्यपदेशः । ___ अग्रवा स एवादृश्यस्य स्वभावो यद्यग्निना नोपक्रियते तत्किमग्न्यादिसन्निधान एव धूमं करोति न पूर्वन्न पश्चात् । तस्मादग्न्यादिसन्निधान एवास्वभावो धूमजनको भवति नान्यदेति तत्रापि पारम्पर्येण धूमस्याग्निजन्यत्वमेव स्यात्।
किञ्च। यथा देशकालादिकमन्तरेण धुमस्यानुत्पत्तेस्तदपेक्षा प्रतीयते तथा सर्वदाग्निमन्तरेणानुत्पत्तिदर्शनादग्न्यपेक्षाऽस्य केन वार्येत । तदपेक्षा च तत्कार्यतैव। यथा चादृश्यभाव एव धूमस्य भावात्तज्जन्यत्वमिष्यते तथा सर्वकालमग्निभावे भावदर्शनादग्निजन्यत्वं किन्नेष्यते। यावतां च सन्निधान एवोत्पद्यमानो भावो दृश्यते तावतामेव हेतुत्वं सर्वेषां प्राग्भावस्य तुल्यत्वात्। तथा चाग्न्यदृश्यादिसामग्रीजन्यत्वं धूमस्येति कुतोग्निव्यभिचारः । ____ अन्यस्त्वाह। भवत्वग्निधूमयोः कार्यकारणभावतस्तथापि न तयोरेकेन ज्ञानेन ग्रहणम्भिन्नकालत्वात्। नाप्यनेन पूर्वकेण हि निर्विकल्पकेन पूर्वकम्वस्तु मात्रं गृहीतं न तु कारणरूपं कार्यस्य भावित्वेनाप्रत्यक्षत्वात् । उत्तरेणाप्युत्तरम्वस्तुमात्रं गृह्यते न तु कार्यरूपं कारणस्योतीतत्वेनाग्रहात्। नापि सविकल्पकेन तत्राप्यस्य चोद्यस्य तुल्यत्वात् । तेनेदमस्मादुत्पन्नमिति न केनचिद् गृहीतमत एव न स्मरणेनापि गृह्यतेनुभवाभावादिति। ___अत्रोच्यते। कार्यस्य तावदनुत्पन्नावस्थायामसत्त्वादेव न कारणसम्बन्धित्वं निष्पन्नावस्थायामप्येवं । निरपेक्षत्वात् (।) तथा कारणमपि कार्यनिष्पत्त्यनिष्पत्त्यवस्थायां कार्यासम्बन्ध्येव। नाप्यनयोः कार्यकारणभावः सम्बन्धो भिन्न काल- 38b त्वात्। केवलमस्येदं कार्य कारणं चेति कल्पितोयं व्यपदेशः । तेन हेतोः सकाशात् स्वरूपलाभ एव कार्यत्वं । कारणस्यापि कार्य प्रति प्राग्भाव एव कारणत्वं स चात्मलाभः प्राग्भावश्च भावस्याभिन्नत्वात् प्रत्यक्षगहीत एव चेति कथं न प्रत्यक्ष