________________
८० ]
वादन्यायः
कान्तिकस्याभिधानान्निग्रहस्थानं वादिनः । एवं यदि प्रतिवादी सत्सामान्यमैन्द्रियकं नित्त्यञ्च प्रमाणेन प्रतिपादयितुं शक्नुयात् । अनुद्दिश्याप्रमाणकं शास्त्रोपगमं प्रमाणेनैषामर्थानामप्रतिपादनेन भूतदोषोद्भावनमेत (त) न कश्चित्पराजयोs (यः, अ) भ्युपगममात्रेण वस्तुसिद्धेरभावात् । प्रतिवादिना दोषस्याप्रतिपादितत्त्वात् । प्रमाणैरसमर्थित साधनाभिधानात्तु तापि न भवतीति । अनित्याकांक्षे पुनर्वादिनि न कश्चिदोषो, विशेषणाभिधानेन हेतोः समर्थनोपक्रमात् ॥ त् ॥
9
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ( न्या० ५।२।४ ) । यथा ( - ) 1oa " गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति हेतुः । सोयं प्रतिज्ञाहेत्वोविरोधः ।"" एतेनैव प्रतिज्ञाविरोधोप्युक्तो यत्र प्रतिज्ञावचनेन विरुध्यते । यथा श्रव [? श्रम ] णा गर्भिणी (, ) नास्त्यात्मेति वा । हेतुविरोधोपि यत्र प्रतिज्ञया हेतुर्विरुध्यते । यथा सर्व
52a
सामान्यं यथा भूतं सिद्धमित्येव न प्रदर्श्यत (इ) त्यर्थः । तथाहि व्युत्थित' चेतसो न परसमयव्यवस्थोपरोधमाद्रियन्ते तत्वदर्शनाध्यवसायशूराः शू[ ? सू] रयः । अप्रमाणकम्वचनं प्रमाणोपेतस्याभ्युपगमस्य विद्वद्भिरलङ्घनीयत्वात् । एतच्च स्यात् प्रमाणैरसमर्थितसाधनाभिधानाद्वाद्यपि जेता न भवति प्रतिपक्षस्य निराकरणात् ॥४॥
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधो ( न्या० सू० ५।२।४ ) ( 9b10 ) नाम निग्रहस्थानं । " गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा । रूपादिभ्योर्थान्तरस्यानुपलब्धेरिति हेतुः । सोयम्प्रतिज्ञाहेत्वोविरोधः । यदि गुणव्यतिरिक्तं द्रव्यं रूपादिभ्येऽर्थान्तरस्यानुपलब्धिर्नोपपद्यते । अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिर्गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते ।" एतेनैव प्रतिज्ञाहेत्वोविरोधेन प्रतिज्ञाविरोधः स्ववचनेन व्याख्यात (1) ‘सूत्रकारेणास्योपलक्षणार्थमुक्तमेतत् । श्रमणा ( 101 ) प्रतिविरतपुरुषसम्भोगा गर्भश्च नान्तरेण पुरुषसम्भोगमिति स्ववचनव्याहतिः । हेतुविरोध एतेन चोक्त इति वर्तते । सर्व्वं पृथग् नाना नास्त्येको भाव इति यावत् । समूहे भाव सब्द [? शब्द] प्रयोगात् समूहवाचकघटादिभावशब्दवाच्यत्वादित्यर्थः । यस्मात् समूह इति ब्रुवाणेन एकोभ्युपगतो भवति । एकसमुच्चयो हि समूह इति । तथा हि गवादिद्रव्याणि समुदितानि प्रतिपद्यमानेन समूहोभ्युपेयः । स चायं समूहयन्ति
'न्यायभाष्ये ( पृ० २५९ ) ।