________________
२-न्यायमतखंडनम्
[८१ पृथक् समूह भावशब्दप्रयोगादिति । एतेन प्रतिज्ञया दृष्टान्तविरोधोपि व्याख्यातः। हेतोश्च दृष्टान्तादिभिर्विरोधः प्रमाणविरोधश्च प्रतिज्ञाहतोवक्तव्यः । यः परपक्षं स्वसिद्धेन गोत्वादिना व्यभिचारयति तद्विरुद्धमुत्तरं वेदितव्यं (।) स्वपक्षानपेक्षश्च यञ्च स्वपक्षानपेक्षं हेतुं प्रयुंक्ते अनित्त्यः शब्द ऐन्द्रियकत्वादिति तस्य स्वसिद्धस्य गोत्वादेरनित्यविरोधाद्विरुद्धः ।
द्रव्याण्येतानि गवादिभावेन व्यवस्थितानीति न व्यवतिष्ठते। भेदोप्यल्पतरतमत्वेन यत्तत्र परमाल्पं यदभेद्यं ततो निवर्त्तते यतश्चायं भेदो निवर्त्तते तदेकं । अथ मन्यसे यं तमभेद्यं परमाणुं मन्यसे सोपि रूपादीनां समुदाय इति । एतस्मिन्वै दर्शने ये रूपादयः समुदितास्ते परमाणुरिति परमाणौ रूपं स कस्य समुदाय इति वक्तव्यं। 52b एवं शेषेषु गुणेषु। अथ न तं समुदायम्प्रतिपद्यसे। अष्टौ द्रव्याणि समुदितानि परमाणुरिति शास्त्रं व्याहतं। कामेऽष्टद्रव्यकोऽशब्द: परमाणुरिति (अभिधर्मकोशे २।२२)। तस्मा' दनुपपत्तावनेकोपपत्तिरित्यतिमौढचं । असिद्धश्चायं हेतुः । यस्मादनेकविधलक्षणैर्गन्धादिभिर्गुणैर्बुध्नादिभिश्चावयवैः सम्बद्ध एको भाव उपपद्यते। अतः शब्दादेकार्थाधिगतौ शेषोनुसक्तो[?षक्तो]र्थो गम्यत इति।
ननु चायमपि प्रतिज्ञाहेत्वोविरोध इति प्रथमादस्याविशेषः। मैवमुभयाश्रित त्वात् विरोधस्य । विवक्षातोऽन्यतरनिर्देश इति भारद्वाजेनैवोक्तत्त्वात्। प्रतिज्ञाया दृष्टान्तविरोधो यथा व्यक्तमेकप्रकृतिकं परिमितत्वात् शरावादिवदिति शरावादिर्दृष्टान्त एकप्रकृतित्वं बाधते। दृष्टान्तभूतायाः प्रकृतेः प्रकृत्यंतरत्वात् । एकप्रकृतित्वे वा शरावादिर्दृष्टान्तोऽयुक्तः । हेतोश्च दृष्टन्तादिभिर्विरोधो यथा गुण व्यतिरिक्तं द्रव्यमर्थान्तरत्वेनानुपलभ्यमानत्त्वात् । घटादिवदिति । घटादीनाम्भेदेन ग्रहणाद्धेतुं बाधते दृष्टान्तः । आदिग्रहणेन हेतोरुपनयनिगम(न)भ्यां विरोधो गृहयते । अनयोरुदाहरणमनित्यः शब्दः कृतकत्वात् । यत्कृतकन्तदनित्यं यथाकाशन्तथा च कृतकः शब्द इत्युपनयेन हेतोविरोधः। तथा हयुदाहरणा पेक्षस्तथेत्युयुपसंहारो न तथेति चेति (न्या० सू० ११११३८) साध्यस्योपनय उक्तः । इह च विपरीतमुदाहरणमित्येतदपेक्षोपनयेन हेतोविरोधः। ईदृशे च प्रयोगे तस्मादनित्य इत्युपसंहारे निगमनेन । प्रमाणविरोधश्च प्रतिज्ञाहेतोर्यथाऽनुष्णोग्निद्रव्यत्वाज्जलवदिति प्रत्यक्षम्बाधते । परपक्ष (ro a 2) इत्यादि । एतच्च यच्च स्वपक्षानपेक्षञ्चेत्यादि (ro a 3)। एतदप्युभयम्प्रतिज्ञाहेतोविरोध
53a इत्यनेनैव सङगृहीतत्वात् पृथग् निग्रहस्थानत्वेन नैव वक्तव्यमिति दर्शयति । परपक्ष इत्यत्र परेणप्रमाणे कृते कणादोऽनैकान्तिकमुद्भावयति।स्वपक्षानपेक्षञ्चेत्यत्र