________________
२ - न्यायमतखंडनम्
[ ७९ नहि प्रतिज्ञा प्रतिज्ञासाधनायोच्यमाना प्रतिज्ञान्तरं भवति, किन्तर्हि 9b हेत्वादेरन्यतमः, साध्यसाधनायोपादानात् । साधन निर्देशः स स्यान्न साध्यनिर्देशः । उदाहरणसाधर्म्या' देशश्च हेतुलक्षणस्यासर्वगतत्वे भावात्प्रतिज्ञालक्षणस्य चाभावात् । हेतुत्वमसवगतत्वे प्रयुक्तं न प्रतिज्ञान्तरं । ' अत्यन्तासम्बद्धञ्चेदं प्रतिज्ञां प्रतिज्ञासाधनायाहेति । यो हि प्राक् प्रतिज्ञामु - क्त्वा हेतूदाहरणादिकं वक्तुं जानाति स किञ्चिदनुक्रमं साधनस्य जानात्येव हि, जानन्कथमपिकनान्त: [ ? विकलान्तः ] करणः प्रतिज्ञामेव प्रतिज्ञासाधनायोपाददीत । उपाददता चानेन प्रतिज्ञामात्रेण सिद्धिरिष्टा भवति । ततश्च न प्रागपि हेतुं ब्रूयात् । एवं प्रकाराणामसम्बद्धानां परिसङ्ख्यातुमशक्यत्वात् । लक्षण नियमोप्य ( स ) म्बद्ध एव प्रतिज्ञान्तराभिधाने प्रतिज्ञान्तरं नाम निग्रहस्था नमिति । असम्बद्धाभिधानं निग्रहस्थानमिति । एवं प्रकाराणामेकमेव लक्षणं वाच्यं स्यात् । न चैवंविधः कश्चिद्विवादेषु दृष्टपूर्वी व्यवहारो येन तदर्थं यत्नः क्रियते । न च' बालप्रलापानुद्दिश्य शास्त्रं प्रवर्तते, प्रवृत्तौ च का निष्ठा, तेषामनिष्ठानात् । दृश्यते च विदुषामपि नातिनिरूपणादसिद्धाभिधानमिति । व्यवहारदर्शनात्तादृशं पराजयाधिकरणं व्यवस्थाप्यते । तस्मादिहापि यदि निवृत्ताका (ङ) वादिनि परो नैकान्तिकतामुद्भावयेदसाधनाङ्गस्यानै
भवति । ततश्च प्रागपि प्रथमप्रतिज्ञानन्तरमपि हेतुमैन्द्रियकत्वन्न ब्रूयात् । तस्मादेवं प्रकाराणाम्बालप्रलापानां प्रतिज्ञासाधनाय प्रतिज्ञान्तरमुच्यत इत्येवं रूपाणां परिसङख्यातुमस [? श] क्यत्वात् लक्षणनियमोप्यसम्बद्ध एव । कोसौ । प्रतिज्ञान्तराभिधाने प्रतिज्ञान्तरं नाम निग्रहस्थानमिति ।
ननु नायमीदृशो लक्षणनियमः प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देश इत्येवं कृतत्वात् । नास्ति दोषस्तस्यैव पर्य्यायान्तरेण कथनात् । अथोच्यते यथा विद्वांसो न प्रतिज्ञां प्रतिज्ञासाधानयाहुस्तथा साध्यसिध्यर्थमसिद्ध विरुद्धानैकान्तकादीनपि प्रयुञ्जते ततश्चासाधनाङ्गवचनमित्यादि त्वयापि न वाच्यं भवेदतः प्राह ( 1 ) विदुषामपी ( 9b6 ) ति । अनुद्दिश्याप्रमाणकं शास्त्रोपगममिति मामकीने तन्त्रे
१‘“अत्यन्तासम्बद्धमेतद् यत्प्रतिज्ञा प्रतिज्ञासाधनायेति० स कथं चिदनुक्रमं० जानात्येव जानन् कथमविकलान्तःकरणः ० साधनायोपाददीत " -- इति (न्या० वा० ता० पृ० ७०३) ।