________________
७८ ]
वादन्यायः
प्रतिज्ञातार्थप्रतिषेधे धर्म्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरं (न्या० ५।२।३ ) । प्रतिज्ञातोर्थोऽनित्यः शब्द ऐन्द्रियकत्वादित्येव, तस्य हेतुव्यभिचारो पदर्शनेन प्रतिषेधे कृते धर्म्मभेदविकल्पात्सामान्यघटयोः सर्वगतत्वासर्वगतत्वधर्म्मविकल्पेन प्रतिज्ञान्तरङ्करोति । यथा घटोऽसर्वगतो ऽनित्य एवं शब्दोप्य सर्व गतोऽनित्य इत्येतत्प्रतिज्ञान्तरं नाम निग्रहस्थानं साधनसामर्थ्येप्यपरिज्ञानात् । सहि पूर्वस्या अनित्यः शब्द इति प्रतिज्ञायाः साधनात्तदा यामसर्वगतः शब्द इति प्रतिज्ञामाह । तद्दर्शनाय तदर्थनिर्देश इत्याह । तदर्थः पूर्वोक्तसाध्यसिध्यर्थ उत्तरप्रतिज्ञानिर्देशस्तदर्थनिर्देशः । न च प्रतिज्ञा प्रतिज्ञान्तरसाधने समर्थेति निप्रहस्थानं ॥
अत्रापि नैवं ब्रुवता प्रतिज्ञान्तरं पूर्वप्रतिज्ञासाधनायोक्तं भवति । किन्तर्हि विशेषणं । ऐन्द्रियकत्वस्य हेतोः सामान्ये वृत्त्या व्यभिचार उद्भावितेऽसर्वगतत्त्वे सत्यैन्द्रियकत्वस्य हेतोर्विशेषणोपादाने व्यभिचारं परिहरति न पुनः प्रतिज्ञान्तरमाह । सर्वगतस्य शब्दे सिद्धत्वात् । प्रतिज्ञायाश्च साध्यनिर्देशलक्षणत्वात् ।
यदप्युक्तं पूर्वप्रतिज्ञासाधनायोत्तरां प्रतिज्ञामाहेति । तदप्ययुक्तं ।
10
प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरमिति (92) ) ( न्या० सू० ५।२।३) द्वितीयलक्षणसूत्रं (1) निग्रहस्थानमिति सर्व्वत्रानुवर्तते । अस्यार्थः प्रतिषेधो विपक्षे हेतुसद्भाव' कथनं तस्मिन्सति सपक्षविपक्षयोर्द्धर्मभेदेन करणभूतेन पूर्व्वप्रतिज्ञार्थप्रतिपत्यर्थं प्रतिज्ञान्तरङकरोति । यथा घटोऽसर्वगत एवं शब्दोप्यसर्व्वगतो घटवदेवा' नित्यः शब्द इति शेषः सुज्ञानः । इदं निराकरोति अत्रापी (928) त्यादिना । अद्धिकर्णस्तु भाष्यटीकायामिदमाशङक्यपरिजिहीर्षति (1) ननु चासर्व्व51b गतत्वे सतीति । हे' तुविशेषणमुक्तं । सविशेषणश्च हेतुविपक्षे नास्तीति न प्रतिज्ञान्तरं निग्रहस्थानं। नहि तदेवमसर्व्वगतः शब्द इति प्रतिज्ञान्तरोपादानात् । हेतुविशेषणोपादाने हेत्वन्तरं निग्रहस्थानमिति । एतच्चातिस्थूलं । स हयेवं पक्षधर्ममेव विदग्धबुद्धिविशिनष्टि न तु प्रतिज्ञान्तरमुपादत्ते सिद्धत्वात् । यदपि हेतुविशेषणोपादाने हेत्वन्तरन्निग्रहस्थानमित्यभ्यधायि तदप्यतिपेलवं । यस्मादेवं तदेव नामास्तु प्रतिज्ञान्तरत्वसम्बद्धं । उदाहरणसाधर्म्यादेश्चेति । उदाहरणसाधर्म्यात्साध्यसाधनं हेतु (न्या०सू०१।१।३४) रित्येतस्य प्रतिज्ञालक्षणस्य साध्यनिर्देशः प्रतिज्ञेत्येतस्याभावात् । उपाददता चानेन प्रतिज्ञां प्रतिज्ञासाधनाय प्रतिज्ञामात्रेण युक्तिरहिते न सिद्धिरिष्टा