________________
२-न्यायमतखंडनम्
[७७ इदं पुनरसम्बद्धमेव सामान्यं नित्त्यमैन्द्रियकमित्युक्त शब्दोप्येवमस्त्विति क : स्वस्थात्मा स्वयमैन्द्रियकत्त्वादनित्त्यः शब्दो घटवदिति ब्रुवन् सामान्येनोपदर्शनमात्रेण नित्यं शब्दं प्रतिपद्यते । सामान्यस्य()पि नित्यस्यैन्द्रियकत्वेप्यनित्ये घटे दर्शनात्संशयितः स्यात् । जात्या त्प्र( ? प्र )तिपद्येतापीति चेत् । तथापि कि सामान्यस्योपदर्शनेन । एवमेव नित्यः शब्द इति वक्तव्यं । जडस्य प्रतिपत्तौ विचाराभावात् । न च नित्यसामान्योपदर्शनेन तद्धर्म शब्दे प्रतिपद्यमानेन प्रतिपक्षधर्मोऽभ्यनुज्ञातो भवति । अनित्यः शब्द इति च वदतो नित्यशब्द इत्याभास: प्रतिपक्षः स्यान्न नित्यं सामान्यमिति (1) तस्मादैन्द्रियकत्त्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसाधनाङ्गस्योपादानान्निग्रहा) न, प्रतिपक्षधर्मानुज्ञया+१ऽनेन प्रकारेण प्रतिज्ञाहानेः ॥ त् ॥
मतिः प्रधानमेतन्निमित्तं तस्यास्ततोस्मिन् प्रदर्शितेऽन्योपि प्रकाशित एव भवतीति। तदत्राप्याह । इदमेव च हेतुदोषोद्भावनादिकङकारणं यस्मादेवं हेतुदोषोभावनादिना प्रतिपादितेन प्रतिवादिना प्रतिज्ञा हातव्या सम्यग्दूषणाभिधानात् । यच्चेद-5a मभ्यधायि सामान्यं नित्यमन्द्रियकमित्युक्ते शब्दोप्येवमस्त्वित्यत्र प्रतिविधत्ते। इदम्पुनरसम्बद्धमेव (9a1)। यस्मात् कः स्वस्थात्मा सामान्योपदर्शनमात्रेण सामान्यमस्ति न चैन्द्रियकन्नित्यञ्चेत्येतदविचार्य शब्दं नित्यं प्रतिपद्येत । एतावत्तु भवेत् सामन्यस्यापि नित्यस्यन्द्रियकत्वे तस्य ऐन्द्रियकत्वस्यानित्येपि घटे दर्शनात् संशयितः स्यात् (1) अपि च प्रतिदृष्टान्तधर्मानु वात्र न युक्तत्याह । न च तद्धमं तस्य सामान्यस्य धर्मन्नित्यत्वं यतोऽनित्यः शब्द इति वदता कस्यचिन्नित्यः शब्द इत्ययमञ्जशो .[?से] ति प्रत्यासन्नः प्रतिपक्षः स्यान्न सामान्यन्तस्य धर्म्यन्तरत्वात्। तथा हकाधिकरणयोरेव नित्यत्वानित्यत्वयोविरोधो न नानाधिकरणयोः। आजस ग्रहणमयमपि विरुद्धधर्माधिकरणत्वात् प्रतिपक्षो न त्वतिनिकटो यथा नित्यः शब्द इत्ययमिति परिदीपनार्थ । नानेन प्रकारेण प्रतिज्ञाहाने निग्रहार्ह इति वर्तते। केनानेनेत्याह। प्रतिपक्षधर्मानुज्ञया । अथवा अनेनेत्यसाधनाङगवचनेन । यथोक्तमिदमेव प्रधानं निमित्तमिति॥
१"यदाह कीतिः-तस्मादैन्द्रियकत्वस्य नित्यानित्यपक्षवृत्तेर्व्यभिचारादसा धनांगस्योपादानान्निग्रहो न प्रतिपक्षधर्मस्याभ्यनुज्ञानादिति"--इति न्यायवार्तिकतात्पर्यटोकायां वाचस्पतिमिश्रः (पृ० ७००-१)।