________________
वादन्यायः
यं स्थितपक्षमाह । तत्रैवं ब्रूमः (-) प्रतिदृष्टान्तस्य यो धर्मस्तं यदा स्वदृष्टान्ते ऽभ्यनुजानाति निगृहीतो वेदितव्यः। तत्र दृष्टश्चासावन्तेच व्यवस्थित इति दृष्टान्तः (।) स्वदृष्टान्तः स्वपक्षः, प्रतिदृष्टान्तः प्रतिपक्षः । प्रतिपक्षस्य धम्मै स्वपक्षेऽभ्यनुजा'नन्पराजितः । यथाऽनित्यः शब्द ऐन्द्रियकत्त्वादिति ब्रुवन् प्रतिपक्षवादिनि सामान्येन प्रत्यवस्थिते आह यदि सामान्यमैन्द्रियकं नित्यं शब्दोद्भावनमस्त्विति । एषा प्रतिज्ञाहानिः प्राक्प्रतिज्ञातस्य शब्दानित्त्यत्त्वस्य योगादिति । अत्रोपगतप्रतियोगात् प्रतिज्ञाहानौ विशेषप्रतिनियमः किंकृतोऽनेन प्रकारेण प्रतिज्ञा त्यजतः प्रतिज्ञाहानिरिति । सम्भवन्ति ह्यन्येनापि प्रकारेण हेतुदोषोद्भावनादिना प्रतिपक्षसाधनाभिधानेन च स्वपक्षपरित्यागः
परपक्षोपगमश्च । इदमेव च प्रतिज्ञाहानेः प्रधानं निमित्तं एवं प्रतिपादि9a तेन प्रतिज्ञा हात! व्या हानौ च पराजय इति ।
तस्यानकान्तिकदोषोद्धारमनुक्त्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते । नित्यताप्रतिपत्ते
श्चा सिद्धतादृष्टान्तदोषो भवतीति सोयं दृष्टान्तदोषेण वा हेतुदोषेण वा निग्रहो 50 b न प्रतिज्ञाहानिरिति । दृष्टान्तञ्च जहत् प्रतिज्ञाञ्जहातीति उपचारेण निग्रहस्थानं ।'
न च प्रधानासम्भवे उपचारो लभ्यत इति प्रतिज्ञाहानेर्मुख्यो विषयो वक्तव्य इति।" इदानीम्वातिककारमतं स्वयमेवोपन्यस्यति। प्रतिदृष्टान्तस्येत्यादिना (8b6)कः पुनर'त्र दृष्टान्तोऽभिमतो यदि तावत् यत्र "लौकिकपरीक्षकानो [?णां] बुद्धिसाम्यं स दुष्टान्त (न्या० सू० ११२५) इति पारिभाषिकस्तदा भाष्यकारमतादविषेशस्तत्र च प्रतिविहितं । अथान्यः स न गम्यत इत्याह । तत्र दृष्टश्चासौ पञ्चावयवेन साधनेनान्ते च निगमनस्य व्यवस्थित इति दृष्टान्तः पक्षः। ततः स्वशब्देन सह विशेषणसमासः। तद्विपरीतःप्रतिदृष्टान्त (:)।यथाऽनित्यः शब्दः ऐन्द्रियकत्वादिति ब्रुवन्वादी प्रतिपक्षवादिनि सामान्यादिकमैन्द्रियकं नित्यं च । ततोविपक्षेपि वृत्तेर्व्यभिचार्ययं हेतुरित्येवं “सामान्येन प्रत्यवस्थिते सत्याह यद्येवं शब्दोप्येवमस्त्विति एषा प्रतिज्ञाहानिर्नाम निग्रहस्थानं"। कस्मात् । प्राग्प्रतिज्ञातस्य शब्दानित्यत्वस्य त्यागात् । प्रतिज्ञाशब्देन धर्मिविशेषणभूतो धर्म उच्यते समुदायावयवत्वात्। एतत् प्रतिक्षिपति। अत्र भारद्वाजमते उपगतायाः प्रतिज्ञायास्त्यागात् कारणात्। येयं प्रतिज्ञाहानिर्व्यवस्थापिता तस्यां विशेषनियमः किङकृतः। कोसावनेन प्रकारेण स्वपक्षे प्रतिपक्षधर्मानज्ञास्वरूपेण प्रतिज्ञाहानिरिति। स्यात मतमयमेव प्रतिज्ञाहानिः प्रकारो नान्योस्ति ततो नियमार्थमुच्यत इति । सम्भवति ह्यन्येनापीति । अथ