________________
वादन्यायः
२. न्यायमतखंडनम् अन्यत्तु न युक्तमिति नेष्यते । यत्रेदं यथोक्तं निग्रहस्थानलक्षणन्नास्ति तस्य निग्रहस्थानत्त्वमयुक्तमिति नोक्तमस्माभिः ।
प्रतिदृष्टान्तधाभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानि (न्यायसूत्रं ५।२।२) निग्रहरथानमिति । अत्र भाष्यकारमतं दूषयित्त्वा वार्तिकक.रो
अन्यत्तु न युक्तमिति (8b5) यदुक्तमक्षपादेन द्वाविंशतिविधं निग्रहस्थानं । प्रतिज्ञाहानिः। प्रतिज्ञान्तरं। प्रतिज्ञाविरोधः। प्रतिज्ञासंन्यासो हेत्वन्तरमर्थांन्तरनिरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यून मधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगोपसिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि (न्या० सू० ५।२।१)। "तानीमानि द्वाविंशतिविधानि विभज्य वक्ष्यन्ते" २ । प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः । (न्या०सू०५।२१) तत्र भाष्यकारमतं दूषयित्वा वात्तिककारोयं स्थितपक्षमाह। तमेव ब्रूम इति। भाष्यकारमतस्य भारद्वाजेनैव दूषितत्वादस्माकमर्द्धन्तावदवसितं भारस्येति भावः । तत्रेदम्भाष्यकारस्य मतं । “साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टांतेनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । निदर्शनमनित्यः शब्द ऐन्द्रियकत्वात् घटवदिति कृते पर आह। दृष्टमैन्द्रियकं सामान्यं नित्यङकस्मात् न तथा शब्द इति प्रत्यवस्थित इदमाह यौन्द्रियकं सामान्य कामं घटोपि नित्योस्त्विति । स खल्वयं साधनस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनानन्त (र)मेव पक्षजहाति पक्षञ्च जहतःप्रतिज्ञाहानिरित्युच्यते। प्रतिज्ञाश्रयत्वात् पक्षस्येति ।" वार्तिककारेण चैवमेतद् दूषितं । "एतत्तु न बुद्धचामहे कथमत्र प्रतिज्ञा हीयत इति हेतोरनैकान्तिकत्वं सामान्यदृष्टान्तेन परेण चोद्यते।
'उद्योतकर आह न्याय-वार्तिके (पृ० ५५१-५२) । २ न्यायवात्स्यायनभाष्ये (५।२।१)। । तत्रैव (५।२।२)। ४ न्यायवात्तिके (५।२।२) ।
[७५