________________
१-निग्रहस्थानलक्षणम्
[७१ साधनाभावेऽसत्यपि प्रतियोगिनि भावात् । प्रतियोगिनश्च तन्निराकरणेऽसामर्थ्यात पराजयस्यानुत्पत्तरपराजयः । तस्मादयमसमर्थसाधनाभिधाय्यपि परेण तथाभावे ऽप्रतिपादितेऽपराजितो वक्तव्यः ।
छलव्यवहारोपि विजिगीषूणां वाद इति चेत् । न । दुर्जनविप्रतिपत्त्यधिकारेसतांशास्त्रप्रवृत्तेः। नहि परानुग्रहप्रवृत्ता मिथ्याप्रलापारम्भा त्सोत्कर्षपर पंसनादोनसद्वयवहारानुपदिशति । न च परविपंसनेन लाभसत्कारश्लोकोपार्जनं सतामाचारः। नापि तथाप्रवृत्तेभ्यः स्वहस्तदानेन प्राणिणा( ? ना )मुपतापनं सत्सम्मतानां शास्त्रकारसभासदां युक्तं । न च न्यायशास्त्राणि सद्भिर्लाभाथुपार्जनाय प्रणीयन्ते (1) तस्मान्न योगविहितः कश्चिद्विजिगीषुवादो नाम । परानुग्रहप्रवृत्तास्तु सन्तो विप्रतिपन्नं प्रतिपादयन्तो न्यायमनुसरेयुः सत्साधनाभिधानेन भूतदोषोद्भावनेन वा। साक्षिप्रत्यक्षं तस्यैवानुप्रबोधाय तदेव न्यायानुसरणं सतां वादः । उक्तन्याये तत्त्वार्थी चेत्प्रतिपद्येत । तदप्रतिपत्तावप्यन्यो न प्रतिपद्यतेति । तत्त्वरक्षणार्थ सद्भिरुपहर्त्तव्यमेव छलादि विजिगीषु(भि)रिति चेत् । नखचपेटशस्त्रप्रहारादीपनादिभिरपीति वक्तव्यं । तस्मान्न ज्यायानयं तत्त्वरक्षणोपाय (:) । साधनप्रख्यापनं सतां तत्त्वरक्षणोपायः साधनाभासदूषणञ्च । तदभावे मिथ्याप्रलापादत्र परोपतापविधानेपि तत्त्वाप्रतिष्ठा पनात् । अन्यथापि न्यायोपवर्णने विद्वत्प्रतिष्ठानात् । तस्मात्परानुग्रहाय तत्त्वख्यापनं वादिनो विजयो, भूतदोषदर्शनेन मिथ्याप्रतिपत्तिनिवर्त्तनं प्रतिवादिनः।
धाताभावात् । साधयितुमनिष्टोप्याकाशगुणत्वादिकार्यत्वेनानित्यत्वमात्रसाधने ध्वनौ विवक्षिते सति काणादाः केचिच्चोदयन्ति न्यायानभिज्ञाः। शास्त्रोपगमात् 49a सर्वस्तदिष्टः साध्यः। तत्प्रधाने च हेतप्रतिज्ञयोर्दोष इति तच्चायुज्यमानं शास्त्राश्रयेप्यस्त्यपगतमात्रस्यैव साध्यत्वात्। अन्यथा गन्धे भूगुणताविपर्ययसाधनादयमेव हेतुरस्यामेव प्रतिज्ञायां विरुद्धः प्राप्नोति (1) तथेदमपरमदोषोभावनं । यथाह भारद्वाजो नास्त्यात्मेति प्रतिज्ञापदयोः परस्परविरोध इति । यस्मादात्मेति वस्त्वभिधीयते नास्तीति तस्य प्रतिषेधः। इदमप्ययुक्तमनादिवासनोद्भूतात्मविकल्पपरिनिष्ठितप्रतिभासभेदस्य शं'ब्दार्थस्य परेष्टानित्यचित्तत्वादिविशेषणात्म