________________
१ - निग्रहस्थानलक्षणम्
[ ६९ वचनं वादिनो निग्रहस्थानं प्रतिवादिना तथाभावे प्रतिपादिते । अन्यथा द्वयोरेकस्यापि न जयपराजयाविति ॥ त् ॥
अदोषोद्भावनं प्रतिवादिनो निग्रहस्थानं (1) वादिना साधने प्रयुक्तेऽभ्युपगतोत्तरपक्षो यत्र विषये प्रतिवादी यदा न दोषमुद्भावयति तदा पराजितो वक्तव्यः ।
साधनदोषाः पुनर्न्यूनत्त्वमसिद्धिरनैकान्तिकता वादिनः साधयितुमिष्टस्यार्थस्य विपर्ययसाधनमष्टादश दृष्टान्तदोषाश्च तेषामनुद्भा (व) नमप्रति
तस्याधिकरणं यः शब्दः स च घटश्च तयोरन्यतरस्तेन स द्वितीयो घट इतीत्थं प्रतिज्ञामुपरचय्य द्वादशलक्षणादिव्याख्यानङकरो 'ति । प्रमाणलक्षणमेव तावदेकं महता कालेन व्याचष्टे । चोदनालक्षणो धर्म ( मीमांसा सू० १११।२) श्चोद - नेति क्रियायाः प्रवर्तकम्वचनमाहुश्चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यव हितं विप्रकृष्ट (· · ·) मर्थं शक्नोत्यवगमयितुं नान्यत् किञ्चनेन्द्रियं * ( 1 ) तथाहि (सत्) संप्रयोगे पुरुषस्येन्द्रियाणाम्बुद्धिजन्म तत्प्रत्यक्षं । अनिमित्तं विद्यमानोपलम्भनत्वादि ( मीमांसा सू० १|१|४) त्यादिना । संस्कारदुःखतासिद्धिमन्तरेण 482 नानित्यतासिद्धिरप्रतीत्य समुत्पन्नस्य क्षणिकत्वायोगात् । स तर्हि तादृशो धर्मः पृथग्वाच्यो नेत्याह । तथाविधस्त्वित्यादि । एवंविधस्यापि प्रस्तुतसाध्यधर्मनान्तरीयकस्य प्रतिवादिनाऽजिज्ञासितस्य तद्व्यतिरेकेण प्रतिज्ञायामन्यत्र चाहेतुदृष्टान्तयोः कदा पुनरेतदसाधना' ङगवचनं यथोक्तं निग्रहस्थानमित्याह । प्रतिवादिना तथाभावेऽसाधनाङ्गत्वे प्रतिपादिते सति । यदा तु न प्रतिपादयति तदा द्वयोरेकस्यापि न जयपराजयौ भवत ( : ) ' कुतः साधनानभिधानान्न वादिनो जयः । प्रतिवादिना तथाभावस्याप्रतिपादितत्वाच्च पराजयोपि नास्त्येव । तस्य प्रतिपन्नापेक्षत्वात् । अत एव प्रतिवादिन्यपि तयोरभावः ॥४॥
सम्प्रति प्रतिवादिनो निग्रहस्थानमधिकृत्याह । अदोषोद्भावनमित्यादि (7b6)। यत्र विषये जिज्ञासिते अजिज्ञासिते' पुनर्दोषस्यानुद्भावनेपि नापराध इत्यभिप्रायः । के पुनस्ते साधनस्य दोषा इत्याह । न्यूनत्वं षट्प्रकारमेकैकद्विद्विरूपानुक्तौ (1) स्यान्मतिः सपक्ष विपक्षयोः सदसत्त्वयोयौगपद्येनाप्रयोगे कथञ्च प्रकारात् न्यूनतोच्यते (1) यदा सर्वोपसंहारेण व्याप्तिव्यतिरेकाभ्यान्तदाक्षेपोपि नास्ति तदेयं व्यवस्थाप्यते ।
* मीमांसाशबरभाष्ये १।१।२