________________
वादन्यायः
६८] 7b चय्य द्वादशलक्षणार्थव्याख्यानं (कुमारिलस्य)सर्वोयं दुर्मतीनामसामर्थ्य
प्रच्छादनोपायो न तु सत्यैरस्त्युपेतः । तत्त्वपरीक्षायां फलादिप्रतिसरणदण्डप्रयोगादीनामयुक्तत्त्वात् (1) भवत्येव नाट' कादिघोषणेऽर्थान्तरगमनात्पराजय इति चेत् । अन्यस्याप्यजिज्ञासितस्य किन्न भवति । नहि तस्यापि काचिद्विवक्षितसाध्यधर्मसिद्धौ नान्तरीयकता। यथा हेतुप्रत्ययपारतव्यलक्षणसंस्कारदुःखतादिसिद्धिमन्तरेण नानित्यतासिद्धिः। तथाविधस्तु धर्म (:) पृथगनुक्तोपि साध्यधर्मेऽन्तर्भावात् पक्षीकृत एवेति न पृथगस्योपन्यासो व्याख्यानं वा (।) तस्मादेवंविधस्यापि तदानीं प्रतिवादिनो जिज्ञासितस्यार्थस्य प्रतिज्ञायामन्यत्रैवोपन्यासो व्याख्यानं वा ऽर्थान्तरगमनान्निग्रहस्थानमेव । तेन जिज्ञासितधर्ममात्रमेव साधनाङ्गं वाच्यं । न प्रसङ्ग उपक्षेप्तव्यः । तदुपक्षेपेतिप्रसङ्गात् । एवमसाधनाङ्ग
यस्येति विग्रहः । नैरात्म्यवाद्युदाहरणेन किं ज्ञापयति। यत्र नाम विहितप्रतिसिद्धो 47b [ ? प्रतिषिद्धो ] वादिदोषगुणसौगतधर्मविनयस्याप्यहङकारनिमित्तसकलोद्ध
वादिमलक्षालनायोद्यतमत्रैव नात्मवादिनस्तत्साधने नृत्यगीतादेः प्रसङगः। तत्रान्येषामन्यस्य च का गणना। ननु च वयं बौद्धा ब्रूम इति कथं यावता सविशेषणस्य प्रतिषेधाभिधानात्। अहम्बौद्धो ब्रवीमीति भवितव्यं । यथाहं गार्गो [? गार्यो] अवीम्यहं पटु ब्रवीमि इति न च बहु ष्वेवेतद्वहुवचनमिति (पाणिनिः १४।२१) शक्यमभिधातुं कश्चिदिति वचनात्। नैव यस्मादसावात्मनि परान् स्वयूथ्यानप्यन्यान्बहूनपेक्ष्य तथा प्रयुक्तवान् । ईदृश्यामेव च वादिनो विवक्षा यामिदमुक्तमुदाहरणं नान्यस्यामिति प्रतिपत्तव्यं (1) अथवा जडशाब्दिकाभिनिवेशनिवारणायेदमेवमुक्तं तथा च व्यर्थता शब्दानुसासन [? नुशासन] स्य प्रतिपादयिष्यति। अत एवान्येन महारथेनापीदं प्रयुक्तं॥
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नता। (२२) इति।
सभ्यः साधुसंमतानामित्युपहसति । अहो शब्दश्चेहाध्याहियते। द्वादशानाम्प्रमाणादिलक्षणानां यः प्रपञ्चो विस्तरस्तस्य प्रकाशनाय यच्छास्त्रं मीमांसाख्यं तस्य प्रणेता स चासौ जैमिनिश्च तेन प्रतिज्ञातं यत्तत्वं नित्यताभिधानं ।