________________
१-निग्रहस्थानलक्षणम्
[६७ दिनोऽजिज्ञासितत्वात् । जिज्ञासायामदोषो जिज्ञासितं पुनरर्थस्य अन्यस्य प्रसङ्गपरंपरया ये ष ( ? ) पन्नादिना बहिःप्रतिवादिनः । प्राश्निकानाञ्च न्यायदर्शिनामिति । एभिः कथाविच्छेद एव करणीयो, नहि कश्चिदर्थः क्वचिक्रियमाणप्रसङ्गे न प्रयुज्यते । नैरात्म्यवादिनस्तु तत्साधने नृत्यगीत्यादेरपि तत्र प्रसङ्गात् । यथा प्रतिज्ञाभिधानपूर्वकं कश्चिकुर्यात् । नास्त्यात्मेति वयं बौद्धा ब्रूमः । के बौद्धाः। ये बुद्धस्य भगवतः शासनमभ्युपगताः। को बुद्धो भगवान (1) यस्य शासने भदन्ताश्वघोषः प्रबजितः । कः पुनर्भदन्ताश्वघोषः (1) यस्य राष्ट्रपालं नाम नाटकं (1) कीदृशंराष्ट्रपालं नाम नाटकमिति (1)प्रसंगं कृत्त्वा नान्द्यन्ते ततःप्रविशति सूत्रधार इति ।। पठेन्नृत्येद् गायेच्च । प्रतिवादी तश्च सर्वप्रसंगं नानुकतुं समर्थ इति पराजितः स्यादिति । सत्यसाधुसम्मतानाम्विदुषां तत्त्वचिन्ताप्रकारः । न चैवं प्रस्तुतस्य पर्यवसानं स भवति अनिश्चयफलत्त्वादनारम्भ एव वादस्य। ___कथञ्चैवं जयपराजयौ प्रतिवादिनोप्य(न)नुभाषणस्यैवंप्रकारस्य प्रसंगस्य विस्तरेणानुभाषणव्याजेन सम्भवादनिश्चितत्वाच्च । तस्माप्रतिज्ञावचनमेव तावन्न न्याय्यं कुतः पुनस्तत्राजिज्ञासितविशेषप्रसङ्गोपन्यासः । तद्वथाख्याप्रसङ्गवितथप्रलापश्च। सर्वेश्चायं प्रकारो दुर्मतिभिः शठाय सामयेनार्थप्रतिपादनेऽसमथैः प्रवर्तितो । यथा पुरुषातिशयपूर्वकानि तनुकरणभुवनादीनीति प्रतिज्ञाय तनुकरणभुवनव्याख्याव्याजेन सकलवैशेषिकशास्त्रार्थघोषणं, नित्यः शब्दोऽनित्यो वेति ( 1 ) वादे वादलक्षणप्रपञ्चप्रकाशनशास्त्रप्रणेतु मिनि प्रतिज्ञाततत्त्वनित्यताधिकरणशब्दघटान्यतरसद्वितीयो घट इति प्रतिज्ञामुपर' ०
नाङगस्तस्यैवाभिव्यक्तिरुत्तरेण पदद्वयन ॥ अजिज्ञासितं प्रतिवादिनाऽशास्त्राश्रयव्याजादिभिरित्यादिपदेनासम्बद्धप्रसङगपरिग्रहः । प्रक्षेपो नाममात्रेण घोषणं विस्तरेण । यथा बुद्धीन्द्रियदेहकलापव्यतिरेकात्मास्ति नास्तीत्येतावत् मात्रे वुभुत्सिते नैयायिकाः प्रमाणयन्ति । सदाद्यविशेषविषया विषयज्ञेयविषया मदीयाः प्रत्यक्षादयः प्रत्यया मदीयशरीरादिव्यतिरिक्तसम्वेदकसम्वेद्याः स्वकारणायत्तजन्मवत्वादिभ्यः पुरुषान्तर प्रत्ययवदिति ततः सदनित्यन्द्रव्यवत् कार्यकारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेष इति महता व्यासेन सदाद्यविशेषाद् व्याचक्षते। नह्यत्र स'दाद्यविशेषविषया विषयज्ञयविषयत्वन्धर्मविशेषणं कथंचिदपि प्रकृतसाध्यसिध्युपकारि । परव्यामोहनानुभाषणशक्तिविघातादिहेतोरित्यत्रादिशब्देनोत्तरप्रतिपत्तिशक्तिविघातहेतोः परिग्रहः क्रियमाणः प्रसङगो