________________
१-निग्रहस्थानलक्षणम्
[५१ अवस्थितस्य द्रव्यस्य धर्मान्त रनिवृत्तिर्धा(न्तर)प्रादुर्भावश्च परिणामः। यत्तद्धन्तिरं निवर्तते प्रादुर्भवति च। किन्तत्तदेवावस्थितं द्रव्यं स्यात्ततोऽर्थान्तरं वाऽन्यविकल्पाभावात् । यदि तत्तदेव, तस्यावस्थानी [? यां] न निवृत्तिप्रादुर्भावाविति कस्य ताविति वक्तव्यं । अवस्थितस्य धर्मान्तरमिति च न सिध्यति । न हि तदेव तस्यानपाश्रितव्यपेक्षाभेदं धर्मान्तरम्भवति । अथ द्रव्यादर्थान्तरं धर्मस्तदा तस्य' निवृत्ति
भगवता कपिलेन स्पष्टमिदमुक्तमित्यभिसन्धायाह । अवस्थितस्य द्रव्यस्य यथा काञ्चनस्य धर्मान्तरस्य केयूरस्य निवृत्तिः। धर्मान्तरस्य च कुण्डलादेः प्रादुर्भावः परिणाम इति । आचार्यस्तस्यैव तावदिदमीदृशं' प्रज्ञास्खलितङकथं वृत्तमिति सविस्मयानुकंपन्नश्चेतः। तदपरेप्यनुवदन्तीति निर्दयाक्रान्तभुवनं दिग्व्यापकन्तमः। कः प्राणिनो हितेच्छा विपुलत्व स्यापराध इति मन्यमान (:) प्राह।
ननु यदि नाम तेनैवमुक्तं । भवद्भिस्तु निभालनीयमेतत् यत्तद्धर्मान्तरं कुण्डादिकं निवर्त्तते प्रादुर्भवति च किं त"देवावस्थितं काञ्चनद्रव्यं स्यात्ततो- 36b न्तरम्वेति। कस्माद्विकल्पद्वयमेव कृतमितिचेदाह (1) अन्यविकल्पाभावात् (5a8) । निर्ग्रन्थवादस्यायोगादित्यभिसन्धिः। यद्याद्यो' विकल्पस्तदा कोदोष इति चेदाह। यदि तद्धर्मान्तरन्तदेवावस्थितं द्रव्यं (5a8)। तदा तस्याव स्थानान्न निवृत्तिप्रादुर्भावावाविर्भावतिरोभावलक्षणाविति तस्मात्कस्य ताविति वक्तव्यम्भवद्भिः। प्रयोगो [?प्रयोगः पुनः यस्यावस्थानं न तस्य निवृत्तिप्रादुर्भावौ। यथावस्थातुर्द्रव्यस्य। तथा चावस्थानन्तस्य धर्मान्तरस्येति व्यापकविरुद्धोपलब्धिः । न चासिद्धो हेतुर्यतो यदवस्थातुरनन्यत्तस्यावस्थानं यथा तत्स्वरूपस्यैव। अनन्यच्चैतद्धर्मान्तरं तस्मा दिति स्वभावहेतुः किञ्च यद्यवस्थितमेव द्रव्यं तद्धर्मान्तरं तदावस्थितस्य द्रव्यस्य धर्मान्तरमिति। वचनं सिध्यति । किडकारणमित्याह । न हि तदेव तस्य धर्मान्तरम्भवती (Sa9) . ति भवत्येव तदेव तस्य धर्मान्तरं यथा कृतकत्वं शब्दस्याव्यतिरिक्तमपि तस्मादिति चेदाह। अनपाश्रितव्य पेक्षाभेदं (59)। एतदुक्तम्भवति। अत्र हि स एव सब्दो [? शब्दो]ऽकृतकादिभ्योव्यावृत्तत्त्वात् तद्वयावृत्त्यपेक्षया तन्मात्रजिज्ञासायां प्रतिक्षिप्तभेदान्तरेण शब्देन धर्मत्वेन व्यपदिस्यते [? व्यपदिश्यते] इह तु पुनर्व्यपेक्षाभेदोपि नास्ति तत्कथन्तदेव तस्य धर्मान्तरम्भविष्यतीति।
धर्मस्य द्रव्यादर्थान्तरपक्षे तहि को दोष इत्याह ॥ अथेत्या (5a9) दि ॥ कस्माधर्मनिवृत्तिप्रादुर्भावाभ्यां न द्रव्यस्य परिणामो यस्मा (न्) न हयर्थान्तरगताभ्यां निव