________________
५२]
वादन्यायः
प्रादुर्भावाभ्यां न द्रव्यस्य परिणतिः (1) न ह्यर्थान्तरगतस्य स्यानिवृत्तिप्रादु
र्भावाभ्यामर्थान्तरस्य परिणतिः । चैतन्येपि प्रसङ्गात । द्रव्यस्य धर्म इति 5b च व्यपदेशो न सिध्यति10 सम्बन्धाभावात् । नहि कार्यकारणभावा
दन्यो वस्तुसम्बन्धोस्ति । न चानयोः कार्यकारणभावः, स्वयमतदात्मनोऽतत्कारणत्वात् । धम्मस्य द्रव्यादर्थान्तरभूतत्वात् । अर्थान्तरत्वेपि धर्मकारण त्वे धर्मान्तरस्य कार्यस्योत्पादनात् द्रव्यस्य परिणाम इतीष्टं
37a त्तिप्रादुर्भावाभ्यामर्थान्तरस्य परिणतिर्भवति। तदेव कुतश्चैतन्येपि परिणतेः प्रसङ
गात् । न च चैतन्यस्य परिणतिरिष्यते। प्रधानपुरुषयोरैक्यापत्तेरकर्तृता चेति वचनात् । प्रयोगः पुनः । यद्यतोर्थान्तरन्न तद्गताभ्यां निवृत्तिप्रादुर्भावाभ्यां तस्य परिणतिः। तद्यथा चैतन्यभिन्नस्वभावस्याङकुरस्य निवृत्तिप्रादुर्भावाभ्यां चैतन्यस्य धर्मान्तरञ्च द्रव्यादिति व्यापकविरुद्धोपलब्धिः। भवे देतन्न यस्य कस्यचिदर्थान्तरस्यासम्बद्धस्यापि निवृत्तिप्रादुर्भावाभ्यामन्यस्य परिणतिरपि कुत (:) चासम्बद्धस्यैव । यथा तस्यैवाङकुरस्य बीजसम्बद्धस्य निवृत्तिप्रादुर्भावाभ्याम्बी जस्य तेन सामान्येन साधने सिद्धसाधनं । धर्मस्य द्रव्यसम्बन्धात् (त)द्विशेषेण तु साधनविकलता निदर्शनस्य। अङकुरस्य चैतन्येन सह सम्बन्धाभावादिति चेदाह। द्रव्यस्य धर्म इति (5a10) व्यपदेशो न सिध्यति (5a10)। कुतः सम्बन्धाभावात्। एवं मन्यते द्रव्यसम्बन्धोयं धर्म इत्येतदेव न विद्यते। तत् कुतो व्यावृत्ति प्रसङगस्येति। अस्त्येव तहि द्रव्यधर्मयोराधाराधेयभावलक्षणस्सम्बन्धस्ततश्च सविशेषणेपि हेतो असिद्धिरित्यत आह। नहि कार्यकारणभा वादन्यो वस्तुभूतः सम्बन्धोस्ती (5b1) ति । आधाराधेयभावोऽपि कार्यकारणभावविशेषादेव व्यवस्थाप्यते। यथा निर्णीतमाधारतोभिनिवृत्तेरात्मनस्तादृशो नु(?)..य कार्यन्तस्येत्यत्र प्रकरणे प्रमाणविनिश्चय इत्यभिप्रायः। अस्तु तहि कार्यकारणभावस्तयोरिति चेदाह । न चानयोर्द्रव्यधर्मयोः कार्यकारणभाव (5b1) इति। कुतः स्वयमतदात्मनोऽतत्कारणत्वात। यद्धि यत्स्व
भावं न भवति न तत्तत्कारणतया भवद्भिरभ्युपेयं यथा रजस्तमसः। तथा चेदमपि 37b
द्रव्यधर्मस्स्वभावो भवति तत्कथमिव तस्य कारणत्वमुपेयादिति व्यापकानुपलब्धिप्रसङग मन्यते। न चायमसिद्धो हेतुरिति मन्तव्यं । अर्थाभावपक्षं समाश्रित्य दोषाभिधानस्य प्रकृत'त्त्वात् । यदाह । धर्मस्य द्रव्यादर्थान्तरत्वं (5b1) स्यादिति । अथाप्यस्मद्वै (फोल्ये स्यात् पूर्वकान् कापिलानतिपत्य साङख्यानां शकमाधववत् । द्रव्यस्य व्यतिरेकेपि धर्मकार णत्वमिष्यते तदापि ब्रूम इत्याह । अर्थान्तरत्त्वेपि द्रव्यस्य धर्मकारणत्वेऽङगीक्रियमाणेऽर्थान्तरस्य कार्यस्योत्पादनात् (5b2) कारणात् । व्यस्य