________________
वादन्यायः
५०] ऽवैश्वरूप्यसहोत्पत्त्यादिप्रसङ्गात् । न च घटं मृदात्मानञ्च कश्चिद्विवेकेनोपलक्षयति येनैवं स्यादिति नेह प्रादुर्भूतमिति । न ह्यधिष्ठानाधिष्ठानिनोर्विविधानुपलक्षणे एवं भवति । न च शक्तः शक्त्यात्मनि प्रादुर्भाव इति तस्याः स्वात्मनोऽभेदो न स्यात् । एतेन परिणामः प्रत्युक्तः।
___ योपि हि कल्पयेद्यो यस्य परिणामः स तस्मादभिन्न इति । न हि शक्तिरात्मनः परिणाम इति । किञ्चेदमुक्तम्भवति परिणाम इति,
शब्दादिभिरनेकप्रकारं न भवति। न तस्य वैश्वरूप्यमस्ति। यथैकस्य सुखाद्यात्मनः। तथा सति (?) मतानामप्यवस्थानामनन्तरोक्तो धर्मो नास्ति न चासिद्धो हेतुर्यतो यद्यस्मान्न व्यतिरिच्यते न तद्विशिष्टरूपादिभिरनेकप्रकारं यथा तस्यवात्मा। न व्यतिरिच्यन्ते चावस्था अभीष्टा इति व्यापकविरुद्धोपलब्धी। तथा यद्यस्मादपृथग्भूतं तत्तदुत्पादादिभिरुत्पादादिमत्। यथा तस्यैव स्वरूपं। अपृथग्भूताश्चा'भिमता अवस्थास्ताभ्योऽन्यस्या इति स्वभावहेतुः। अन्यथा घटोयमित्यनन्यत्वमेवायुक्तं । नामान्तरम्वा अर्थभेदमभ्युपगम्य तथाभिधानात्। उपचयमाह । न च घटं मृदात्मानञ्च कश्चिद (sas)त्यर्थमुन्मीलितलोचनोप्ययं घटोयं च मृदात्मेति विवेकेनोपलक्षयति । येनैवं स्यादिदमिह प्रादुर्भुतमिति तदनेनाभेदलक्षणमत्यन्तासम्बद्धमेवेत्याह। ननु च पिण्डरूपात्मृदात्मनो घटस्य विवेकेनोपलक्षणमस्त्येव तत्किमेवमुक्तमिति चेत् । सत्यमस्ति । न तु घटाद् भिन्नन्तं परोभिमन्यत इत्यभिप्रायाददोषः। यदि नाम भेदेनानुपलक्षणन्तयोस्तथापि कस्मादेवं न स्यादिति चेदाह ॥ नधिष्ठानाधिष्ठानिनोराधाराधेययोः कुण्डेवदरयोविवेकेनानुनपलक्षणे सत्ये
वम्भवतीदमिह प्रादूर्भूतमिति (4a6)। तदनेन घटमृदात्मनोराधाराधेयभावो' 36a नास्ति विवेकेनानुपलक्षणात्सत्वादितत्स्वभावयोरेवेति व्यापकानुपलब्धिं मन्यते।
अधुना यद्यस्मिन्प्रादुर्भवति तत्ततोऽभिन्नमित्यस्याभेदलक्षणस्याव्या पितासा[? शा] चिख्यासुराह। न च शक्त्यात्मनि प्रादुर्भावस्तस्या नित्यमवस्थानाभ्युपगमात् ॥ अन्यथावस्थैव सा स्यात् । तथा च तस्याः स्वात्मनः सकासा [? सकाशादभ्युपेतोऽभेदो न स्यात्। अभेदलक्षणाभावात् उपलक्षणञ्चैतद्वयक्तौ सुखादिषु पुरुषेषु च तुल्यदोषत्वात् । अन्ये तु स्वदर्शनापराधमलीमसधिय (:) केचित्सांख्या एवमाहुः । यो यस्य परिणामस्स तस्मादभिन्नः। तद्यथा हेम्नः कुण्डलाद्यवस्थाविशेष इति तेप्यनेनैव पूर्वस्याभेदलक्षण स्याव्यापिताप्रदर्शनेनापहस्तिता इति चेतस्यारोप्याह। एतेनैवे (5a6)त्यादि। युष्मद्दर्शनपरिणामोपि न युक्त इत्यभिप्रायवानपक्षेप डकरोति। किञ्चेद (5a7)मित्यादिना। परेणापि किमत्र वक्तव्यं यावता