________________
१-निग्रहस्थानलक्षणम्
[४९ घटस्य प्रादुर्भावः किन्तहिं मृदात्मैव कश्चित् घटा [ ? टो], न टेकस्त्रलोक्ये मृदात्मा, प्रतिविज्ञप्तिप्रतिभासभेदश्च द्रव्यस्वभावभेदात् । एवं ह्यस्यापि सुखादिषु चैतन्येषु भेदावगमः समर्थो भवति । यद्येवं भेदः स्यात् । सत्यप्येतस्मिन् कस्यचिदात्मनोऽन्वयादेवमिति चेत् । सुखादिष्वप्ययं प्रसङ्गः चैतन्येषु च । न च घटादिष्वपि सर्वात्मनान्वयो
विरोध (5a3) इति जन्माजन्मादीनां। अनन्तरोक्तस्य वा। न वै मृदात्मनीत्यादिना मृत्पिण्डघटयोराधाराधेयभावं प्रतिक्षिपति । किन्तर्हि मृदात्मैव कश्चित्' विशिष्टग्रीवादिसन्निवेशावच्छिन्नो घट इत्यभीधीयते (1) नन्वेकमेव मृद्रव्यं सर्वत्र तत्कथमिदमभिहितमित्यत आह । नहि एकस्त्रैलोक्यमृदात्मे (5a3)ति। कुतः प्रतिविज्ञप्तिप्रतिभासभेदन्द्रव्यस्वभावभेदादिति सम्बन्धः। अन्योन्यभिन्नानामेव द्रव्याणाम्विज्ञाने प्रतिभासनादित्यर्थः। तथा प्रत्यवस्थाभेदभिन्नावस्थत्वात्। प्रत्यर्थ क्रियाभेदं चाश्रित्य द्रव्यस्वभावभेदात् । परस्परासम्भविकार्यकारणा- 35a दिति यावत्। परस्यापि सत्वरजस्तमश्चैतन्येषु भेदाभ्युपगम इदमेव कारणं युक्तमिति कथय (न्) नाह। एवं हीति (5a4)। यदि प्रतिविज्ञप्तिप्रतिभासभेदादिना भेद इष्यते । चैतन्येषु चेति बहुवचनं बहवः पुमांस इति सिद्धान्तात् । यद्येवमिति प्रतिविज्ञप्ति प्रतिभासभेदादिना । पुनरप्याह । सत्यप्येतस्मिन् प्रतिविज्ञप्तिप्रतिभासभेदादौ कस्यचिदात्मन (5 a4) इति शक्तेरनुगमादैक्यमवस्थानामिति । आचार्य आह। यद्येवं सुखादिष्वप्ययमेवाभेदप्रसङ गश्चैतन्येषु च। सुखादिष्वपि हि गुणत्वाद् भोक्तृत्वकर्तृत्वादीनामनुगमाच्चैतन्येषु च भोक्तृत्वाकर्तृत्वागुणत्वादी नान्तथा सुखादि चैतन्येषु सत्वज्ञेयत्वादीनामन्वयादित्यभिप्रायः। प्रयोगो[? गः] पुनरभिन्नाः पुरुषसुखादयः परस्परमन्वयान्वयभाक्त्वात् । शक्तिव्यक्तिवत् । शक्तिव्यक्ती वा भिन्नेऽन्वयोनन्वयभाक्त्वादेव। सुखादिचैतन्यवदिति स्वभावहेतु(:)। अथापि स्याद्यत्र सर्वात्मनैवान्वयस्तत्राभेदो न तु यत्र केनचिद्रूपेण । घटादिषु च सर्वात्मनान्वयस्ततोयमदोष इत्यत आह । न च घटादिष्वपि सर्वात्मनान्वयो (5a5) पि तु केनचिद्रूपेणेति न केवलं सुखादिष्वित्यपि शब्दः । कुतोऽवश्वरूप्यसहोत्पादाविप्रसङगात् । तथाहि सर्वासामवस्थानां सर्वप्रकारेणान्वये सत्यैक्यम्प्राप्नोति । ततश्च विशिष्टरूपरसगन्धश वीर्यविपाकाभावात् । वैचित्र्यन्न भवेत् । एवञ्च पञ्चभूताभावप्रसङगोऽध्यक्षादिवाधाप्रसं गश्चेति 35b . भावः । सहोत्पत्तिश्च सर्वासामवस्थानाम्प्रसज्यते। आदिशब्देन ह्यनिरोधार्थक्रियाव्यापारविकारादय' उपादीयन्ते। प्रयोगाः पुनर्यद्विशिष्टरूपरसगन्ध