________________
१-निग्रहस्थानलक्षणम्
[४७ जायते, न पूर्वो विनश्यतीति । यदि सा सर्वदाऽनतिशया किमिदानीमतिशयवद्यत्कृतोयं व्यवहारविभागः । ता अवस्था अतिशयवत्य इति चेत् । ता अवस्था : सा च शक्तिः किमेको भाव आहोस्विनाना । एकश्चेत्कथमिदानीमिदमेकत्राविभक्तात्मनि निष्पर्यायं परस्परव्याहतं योक्ष्यते । जन्माजन्म निवृत्तिरनिवृत्तिरेकत्त्वं नानात्त्वं प्रत्यक्षताऽप्रत्यक्षतार्थक्रियोप' योगोनुपयोगश्चेत्यादि । अस्ति पर्यायोऽवस्था शक्तिरिति तेनाविरोध इति चेत् । विस्मरणशोलो देवानांप्रियः प्रकरणं न लक्षयति । शक्तिरवस्थेत्येको भावोऽविभाग इति यत्कोऽयं विरोध उक्तः ।
आचार्य आह। यदि सा शक्तिः सर्वदा (4b6) तिरोभावाविर्भावकालेऽनतिशयातिशय रहिता एकरूपेति यावत् । तदा किमिदानीं अतिशयवद्विद्यते। यत (:) कुतोयं व्यवहारविभागः क्षीरन्दधितक्रमित्यादि। साङख्य आह ।' अवस्था अतिशयवत्य (4b6) इति। ता(4b6) इत्याद्याचार्यः । विकल्पद्वयञ्च प्रकारान्तरासम्भवात्कृतं । न वाहीकवादो युज्यते तत्स्वान्यत्वयोः परस्परपरिहारस्थितिलक्षणतया तृतीयराशिव्यतिरेचकत्वात् । एकत्वे को दोष इति चेदाह (1) एकश्चेत्तदा कथमिदमेकत्राविभक्तात्मन्यविभक्तस्वरूपे योक्ष्यते (4b7) । व्यपेक्षया भ वेदपीत्याह। निष्पर्यायं किम्पुनस्तत्परस्परव्याहत इत्याह जन्म अवस्थानामजन्मशक्तेः। तथार्थक्रियायामुपयोगोऽवस्थानां शक्तस्त्वनुपयोग (4b7)इति । 34a प्रयोगाः पुनः (1) शक्तैरपि जन्मास्ति । अवाभ्योऽव्यतिरेकात् । अवस्थास्वरूपवत्। अवस्थानाम्वा न जन्म शक्तेरव्यतिरेकात् । शक्तिस्वरूपवत् । स्वभावहेतुविरुद्धव्याप्तो पलब्धि (:)। एतेनैव प्रकारेणार्थक्रियोपयोगानुपयोगनिवृत्यनिवृत्यादिषु स्वभावहेतुविरुद्धव्याप्तोपलब्धयो योज्याः। आदिग्रहणेन पतनापतनयोरपि परिग्रहः।
पुनरपि साङखीयम्मतमाशङकते। अस्तीत्या (4b8) दिना। केनचित्पर्यायेण अवस्थाशक्त्योरनन्यत्वम्परमार्थतस्तु भेद एव तेन जन्मादीनामविरोध इति । नूनम्भवतः स्वपक्षरक्षणाकुलबुद्धरात्मापि विस्मृतः। इत्याकूतवानाह। विस्मरणशील(4b8) इत्यादि । यतोऽनन्यत्वपक्षेऽयन्दोषोस्माभिरुक्तोऽन्यत्वपक्षेत्वन्य एव भविष्यति । कः पुनरसावन्य इति तमेवदर्शयितुमुपक्रमते । अथाप्यनयोः शक्त्यवस्थयोविभागोऽन्यत्वन्तदा न कश्चिद्विरोधः। केवलं सान्वयो भावस्य जन्म विनासा [? विनाशा]दिति न स्यात् । किं कारणं । यस्मात् यस्यान्वयः शक्तित्वेनाभिमतस्य न तस्य जन्मविनाशौ नित्यमेकस्मिन्नेव स्वभावे व्यवस्थानात् । यस्य