SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४६] वादन्यायः मानः प्रवर्त्तमानश्च कथं न स्वभावनानात्त्वमाकर्षयति सुख दुःखवत् । सान्वयत्वे च का कस्य प्रवृत्तिनिवृत्तिवेति यत्किञ्चिदेतत् । अथवा यदि कस्यचित्स्वभावस्य प्रवृत्तिनिवृत्ती स्वयमप्यनुक्रियेते तदेव परो ब्रुवाणः किमिति नानुमन्यते । तस्य निरन्वयोपजननविनाशोपगमादिति चेत् । कोयमन्वयो नाम (1) भावस्य जन्मविनाशयोः शक्तिः, सास्त्येव प्रागपि जन्मनो निरोधादप्यूज़ (1) तेनायं नापूर्वः सर्वथा रात्मभूतोऽनन्वय इत्येकान्तेन निवर्तमानः। व्या पकस्वभावात्प्रवर्त्तमानोऽसन्नेव कथन्न स्वभावनानात्वं। सुखदुःखयोरिवाकर्षति। अन्वाकर्षत्येवेत्यर्थः। प्रयोगो [?प्रयोगः] पुनर्यो यस्यात्मभूतः (4b3) स तन्निवृत्तावेकान्तेन निवर्तते प्रवृतौ चासन्नेव प्रवर्तते यथा तस्यैवातिशयस्यात्मा। आत्मभूतश्चातिशयस्यातिशयवानिति स्वभावहेतुः । ततश्च तयोरवस्थ योरवस्थातु नात्वं परस्परविरोधिधर्माध्यासितत्वात् सुखदुःखवर्दिति स्वभावहेतुरेव। नैवासावतिशयोऽनन्वयः प्रवर्तते निवर्तते वाऽतः पूर्वस्मिन्प्रमाणे साध्यविकलत्वन्दृष्टान्तस्य। उत्तरत्र त्वसिद्धिद्धंतोरिति चेदाह। सान्वयत्वेचातिशयस्य निवृत्तिप्रवृत्योरं गीक्रियमाणे का कस्य निवृत्तिः प्रवृत्तिर्वेति (4b3)। नैव काचित्कस्यचिन्निवृत्तिः प्रवृतिर्वा । सर्वस्य सर्वदा सत्त्वात् । तथा च सवं सर्वत्र समुपयुजे[?ज्ये] तेत्यादिना पुरोनुक्रान्तो दोषोनुपयुज्यत इत्यभिप्रायः। उपचयमाह। यदि च कस्यचित् स्वभावस्यातिशयाख्यस्य प्रवृत्तिनिवृत्तिर्वेति स्वयमभ्यनुज्ञायते' त्वया। एकातिशयनिवृत्याऽपरातिशयोत्पत्या व्यवहारभेदोपगमादित्यविधानात् । तदेतदेव परस्तथागतवचोऽभ्यासोपजातावदातमतिर्बुवाणः । नानुमन्यते भद्रमुखेण [? मुखेन] भवेदेवं यदि यथा मया प्रवृत्तिनिवृत्ती अभ्यनुज्ञायते तथा तेनापि । 33b यावतास्य निरन्वयोपजननविनाशोपगमो ममत्वाविर्भावतिरोभावमात्रन्तत्कथमिवा नुमन्यत इति कदाचिद् ब्रूयात्पर इति तन्मतमाशङकते। तस्ये (4b4)त्यादिना।' सदैव भवद्भिः शून्यहृदयैरयमन्वयो घोष्यते। तत्र वक्तव्यङकोयमन्वयो नाम भावस्य जन्मविनाशयोरिति सत्त्यं एषा। परः प्राह (1) किमत्राभिधानीयं यावता शक्तिरन्वयो भावस्य जन्मविनाशयोरिति वर्तते। कथम्पुनः सान्वय इत्याह । यतोस्त्येव प्रागपि जन्मनो निरोधादप्यूy (4b5)सा शक्तिरवस्थातृलक्षणा येनैतदेवन्तेनायम्भावो नापूर्वः सन् सर्वथा जायते अपि तु शक्तिरूपेण पूर्वं व्यवस्थित एव केवलमाविर्भवतीति सर्वथाग्रहणेन ज्ञापयति। तथा न पूर्वो विनश्यत्येकान्तेनापि तु तिरोभवति ।* असतो नास्त्युदयः सतश्च नास्ति विनाश इति यावत् ।
SR No.002368
Book TitleVadnyaya
Original Sutra AuthorN/A
AuthorShantrakshit Acharya
PublisherMahabodhi Sabha
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy