________________
[४५
१-निग्रहस्थानलक्षणम् भावे च तदेव न स्यात् । अपि च कुत इदमन्त्रौषधमिन्द्रजालं भावेन शिक्षितं यदयमजातानष्टरूपातिशयोऽव्यवधानादूर स्थानस्तस्यैव तदवस्थेन्द्रियादेरिव पुरुषस्य कदाचित्प्रत्यक्षोऽप्रत्यक्षश्च, येन कदाचिदस्यानुमानमुपलब्धिः कदाचित्प्रत्यक्ष कदाचिदागमः । तस्मान्नैवानतिशयेऽमीषां प्रकाराणांविरोधात् । नानतिशय एकातिशयनिवृत्त्याऽपरातिशयोत्पत्त्या च तै (:) ब्यवहारभेदोपगमात् । सोतिशयस्तस्यात्मभूतोऽनवयवे निवर्त्त
लब्धिः । अन्यथा त्वन्तस्य भवत्येवातोयं हेतुरसिद्ध इति चेदाह (1) अन्यथा भावे चेष्यमाणे तदेवोपलब्धिलक्षणप्राप्तं दध्यादि न स्यात् (4b1) प्राच्यरूपात् प्रच्युतेः। तथा च तद्रूपतायां निरन्वयविनास [? विनाश प्रसङग इति भावः । अपि चे(4b1) त्यादिनोपचयमाह । यदयम्भावः । अजातोऽनष्टश्च रूपातिशयोस्येति विग्रहः (१) नित्यमेकत्वरूपत्वाद् द्रव्यान्तरेण व्यवधाने दूरदेशस्थितौ च भवेयुरपि प्रत्यक्षाप्रत्यक्षत्वादय इत्यत आह । अव्यवधानदूरस्थान (4b1) इति । न विद्यते व्यवधानदूरस्थाने चास्येति विग्रहः । क्वचिदव्यवधानादूरस्थान 32b इति पठ्यते। तत्र व्यवधानदूरस्थानशब्दयोः प्रत्येकं नसा समासं कृत्वा पश्चा(द) विशेषणसमासः कार्यः। कञ्चित्पुरुषमपेक्ष्य कोपि प्रत्यक्षोऽन्यञ्चापेक्ष्य प्रत्यक्ष इति न विरोध इत्याह। तस्यैव (4b2) । तस्याप्युन्मीलितलोचनाद्यवस्थायां प्रत्यक्षोऽन्यदा चाप्रत्यक्ष इति न काचित क्षतिरित्याह। तदवस्थेन्द्रियादेरेव (4b2) तदवस्थमविकृतमिन्द्रियमस्येति विग्रहः । आदिग्रहणं मनस्काराद्याक्षेपाय । कदाचिदभिव्यक्तवेलायां प्रत्यक्षो भवति कदाचिच्चानभिव्यक्तक्षीरादिवेलायामप्रत्यक्षश्चेति येन प्रत्यक्षाप्रत्यक्षत्वेन कदाचिदनुमानस्योपलब्धिरशक्तादनुत्पते रिति। कदाचित्तु व्यक्तावस्थायां प्रत्यक्षं। किं पुनरत्रायुक्तं। येनैवं ब्रूष
इति चेदाह। एकस्मिन्नेवानतिशये दध्यादावमीषां प्रकाराणाम्प्रत्यक्षाप्रत्यक्षत्त्वा. दीनां विरोधादिति (4b2)।ये परस्परविरुद्धरूपा न तेषामेकत्रानतिशये सम्भवः। तद्यथा शीतोष्णस्पर्शादीनां। परस्परविरु द्धाश्च प्रत्यक्षाप्रत्यक्षत्वादयः। इति व्यापकविरुद्धोपलब्धिम्मन्यते॥ ___परः प्राह ॥ नानतिशय (4b3) इति । एकस्याव्यक्तावस्थालक्षणस्यातिशयस्य निवृत्याऽपर स्य व्यक्तावस्थालक्षणस्योत्पत्या च क्षीरं दधीति ' व्यवहारस्योपगमात् । अनेनाजातानष्टरूपातिशय इत्यादेरसिद्धत्वमाह। न तावदयमतिशयो भवद्भिरति शयवद् भावव्यतिरिक्तोऽभ्युपगतोऽभ्युपगमे वा तदवस्थोऽनन्तराभिहितो दोषः स्यात् (1)तस्मादव्यतिरिक्त एवायं 33a तत्र चायन्दोष इत्यागूर्याह । सोतिशयो व्यवस्थालक्षणस्तस्यातिशयवतोऽवस्थातु