________________
वादन्यायः
४४] . गमयति व्यभिचारात् । न सर्वप्रत्यक्षनिवृत्तिरसिद्धः, नात्मप्रत्यक्षविषयनिवृत्तिरपि विप्रकृष्टषु । तस्मात्स्वभावविशेषो यतः प्रमाणान्नियमेन सद्वयव हारं प्रतिपद्यते, तन्निवृत्तिस्तस्यासद्वयवहारं साधयति (1) तत्स्वभावसत्तायास्तत्प्रमाणसत्तया इष्टः।
न चोपलब्धिलक्षणप्राप्तस्यार्थस्याप्रत्यक्षादन्योपलब्धिर्येनानुमा4b नाद स्योपलब्धिः स्यात् । न तद्रूपान्यथाभावमन्तरेणाप्रत्यक्षता(,s)न्यथा
कुतोऽसिद्धः। आत्मपर'योरप्रतिपत्तेरित्यर्थः । न ह्यत्र सर्वेषाम्प्रत्यक्षन्निवृत्तमिति निश्चये प्रमाणमस्ति किञ्चित् । आत्मप्रत्यक्षनिवृत्तिरेव तर्हि गमयतीति चेदाह । नात्मप्रत्यक्षा विशेषनिवृत्तिरपी (4a8)ति (1)न केवलं पूर्वोक्तेत्यपि शब्दः । अविशेषेण निवृत्तिरविशेषनिवृत्तिः । आत्मप्रत्यक्षस्याविशेषनिवृत्तिरात्मप्रत्यक्षा विशेषनिवृत्तरिति व्युत्पत्तिक्रमः । सन्निहितसकलतदन्यकारणस्य त्वात्मप्रत्यक्षस्य निवृत्तिस्त्रिविधविप्रकर्षाविप्रकृष्टेऽभावङगमयत्येवेति कथनीयाविशेष वि'प्रकृष्टवचनं । यस्मात् सर्वप्रमाणनिवृत्ति सद्व्यवहारहेतुस्तस्मात् स स्वभावविशेषस्त्रिविधविप्रकर्षाविप्रकृष्टरूपो भावो यतः प्रमाणात्सं निहितसमस्ततदन्यक्रियादिकारणात् प्रत्यक्षानियमेन सद्व्यवहारम्प्रतिपद्यते समासादयति। तस्यैव यथोक्तस्य प्रमाणस्य निवृत्तिस्तस्य स्व भावविशेषस्यासद्व्यवहारं प्रसाधयति । अवधारणमनुमानावगमादिनिवृत्तेर्व्यवच्छेदाय । किङकारणन्तस्य स्वभावविशेषस्य स्वभावसत्तायास्तस्य यथोक्तस्य प्रमाणस्य येयं सत्ता तया व्याप्तः कारणात्। तथाहि यत्र स तादृग्विधः पदार्थस्तत्रावश्यं तेनापि प्रमाणेन भवितव्यं । समर्थस्य कारणस्य कार्या व्यभिचारात् । एवञ्चतत्प्रमाणं तद्व्यापकत्वानिवर्त्त
मानं तामपि वृक्षवच्छिंशपां निवर्तयति। अनेन च यथोक्तादनुपलम्भादित्यायुक्त32a मुपसंहरति स्यादेत दुपलब्धिलक्षणप्राप्तमपि क्षीरादिषु दध्यादिकं न प्रत्यक्षे
णोपलभ्यतेऽपि त्वनुमानेनाशक्तादनुत्पत्तिरिति । अतो न तन्निवृत्याप्यसद्व्यवहारविषयत्वन्तस्येत्यत आह । न चे(4a9)त्यादि । येनान्योपलब्धित्वेनानुमानादस्यों पलब्धिः स्यात् । किम्पुनरन्योपलब्धिर्न युज्यत इत्याह । न चेत्यादि । यस्मादर्थेचकारः। तस्य रूपस्योपलब्धिलक्षणप्राप्तस्यान्यथाभावप्रच्यतिनं तमन्त रेणाप्रत्यक्षः स भावो युक्त इति शेषः । तदेतेन प्रत्यक्षमेव तस्योपलब्धिरपेक्षणीयस्य कस्यचिद्धेतोरभावादिति प्रसाधयति । प्रयोगः पुनः। यद्यदासन्निहितसकलाप्रतिबद्धसामर्थ्यकारणन्तत्तदा भवत्येव न चाक्षेपकारि। यथा समनाप्रतिहतसामर्थ्यकारणसामग्रीकोडकुरः । तथा च क्षीराद्यवस्थासु यथोपदिष्ट पक्षधर्मवद् दध्यादिविषयं ज्ञानमिति स्वभावहेतुः। द्वितीयसाध्यापेक्षया व्यापकविरुद्धोप