________________
१-निग्रहस्थानलक्षणम्
[४३ सद्वयवहारस्याभावान्न सम्भवन्ति। यतस्तेभ्यो व्यवस्था स्यात् । कचिद्विषयेऽसद्वथवहारोपगमे स कुत इति वक्तव्यं । न ह्यनुपलम्भादन्यो व्यवच्छेदहेतुरस्ति । विधिप्रतिषेधाभ्यां व्यवच्छेदे सर्वदानुपलम्भस्यैव साधनत्वात् । अनुपलम्भादेव तदभ्युपगमे स यत्रैवास्ति सर्वोऽसद्वयवहारविषय इति वक्तव्यं विशेषाभावात् । सर्वप्रमाणनिवृत्तिरनुपलब्धिः । सा यत्र सोऽसद्विषय इष्ट इति चेत् । सुकुमारप्रज्ञो देवानांप्रियो न सहते प्रमाणचिन्तावयवहारपरिक्लेशं' येन नात्रादरं कृतवान् । न ह्यनुमानादिनिवृत्तिरभावं
यत्र तु यन्नैव व्यक्तन्तत्र तन्नास्तीत्यतोऽयमदोष इति । नत्वि (4a5)त्याद्याचार्यः। त एवावस्थानिवृत्तिप्रवृत्तिभेदा न सम्भवन्ति तावकीने दर्शने । कुतः सर्वविषयस्यासद्व्यवहारस्याभावात्। अथापि क्वचि द्विषयेऽसदव्यवहार इष्यते तदा तस्य कारणं 31a भवद्भिर्वक्तव्यमित्याह । क्वचिदि (4a5)त्यादि। यदि वावश्यमनेन क्वचित्परिकल्पिते व्यतिरिक्तावयव्यादावसद्व्यवहारों गीकर्तव्यः । स चास्य न युक्तोहेत्वभावादित्याह। क्वचिदित्यादि। कुतः। यस्मान्नहि अनुपलम्भादन्यो व्यवच्छेदस्याभावस्य हेतुरस्ति प्रसाधक इति शेषः। स च त्वया नेष्टक इति भावः । कस्मादेवं यतो विधिना स्वभावविरुद्धोपलम्भादौ प्रतिषेधेन व्यापकानुपलम्भादौ व्यवच्छेदे साध्येऽनुपलम्भस्यैव सर्वदा साधकत्वात् । अथा हमप्यस्मादेवानुपलम्भाद् व्यवच्छेदं साधयामीति ब्रूषे तदत्रापि ब्रूम इत्याह । सोनुपलम्भो यत्रवास्ति स सों ऽसद्व्यवहारविषय (4a6) इति वक्तव्यं ॥ किंमिति विशेषाभावात्। तथा च घटादि[? घटादे]रपि क्वचित्प्रदेशविशेषादावसद्व्यवहारविषयत्वं सिद्धं । तथाविधस्यानुपलम्भस्यात्रापि भावात् तत्कि ब्रूषे। नैव क्वचित् कश्चिद् दृष्टोप्यसद्व्यवहारविषय इति अभिप्रायः। अन्यथा अत्रापि व्यतिरिक्तावयव्यादौ .मा भूदसद्व्यवहार इति यावत् ।
सर्व प्रमाणनिवृत्तिरि(4a7)त्यादि परः। तथा चायुक्तं उक्तं । नहि अनुपलम्भादन्यो व्यवच्छेदहेतुरस्तीति । एवञ्च सति न घटस्यापि क्वचिदसव्यव हारविषयत्वमा गमानुमानभावेन सर्वप्रमाणनिवृत्तेरेवाभावादिति मन्यते । कुतः पुनरिदमतिप्रज्ञाकौशलमासादितं भवतेत्यागूर्योपहसति । सुकुमारप्रज्ञ (4a7) इत्या दिना। न प्रसहते प्रमाणचिन्तापरिक्लेश (4a7)मिति सुकुमारप्रज्ञत्वे कारणं ।
ननु च किमत्रायुक्तमुक्तमस्माभिर्येनोपहससीत्याह । नहीं (4a8)त्यादि। आदिशब्देनागमपरिग्रहः। व्यभिचारश्च पूर्वमेव प्रतिपादितः। सर्वप्राणि 31b प्रत्यक्षनिवृत्तिस्तहि गमयिष्यतीत्याह । न सर्वप्रत्यक्षनिवृत्तिरि(4a8)ति ।