________________
४२]
वादन्यायः
नैव कश्चित्कचित्कथञ्चिदनुपलब्धोप्यसद्व्यवहारविषय' इति चेत् । सर्वस्य सर्वरूपाणां सर्वदाऽनिवृत्तेः सर्व सर्वत्र सर्वदा समुपयुज्येत । इदञ्च न स्यात् । इदमतो नात इदमिदमिह नेदमिदानीमिदमिदानीं नेदमिदमेवमिदं नैवमिति कस्यचिदपि रूपस्य कथञ्चित्कचित्कदाचिद्वि[? द्विविक्त] त्वहेतोरभावात् । अनन्वयव्यतिरेकं विश्वं स्यात् भेदाभावात् । अवस्थानिवृत्तिप्रवृत्तिभेदेभ्यो व्यवस्थेति चेत् * (1) नन्वत एव सवविषयस्या
कापिलास्त्वाहुः । सर्व्वमेव सर्व्वात्मकं अन्यथा यदि मृत्पिण्डदुग्धबीजादिषु घटदध्यङकुरादयो न विद्यन्त एव शक्त्यात्मना तदा कथं पुनस्तेभ्यस्तेषामुत्पत्तिः । नहि शशविषाणमविद्यमानन्तत्रोदेति । एवञ्च सति दृश्यः सन्ननुपलब्धोपि कश्चिद् घटा' दिः क्वचिद्देशादौ कथञ्चिच्च संस्थानविशेषादिना नैवाभावव्यवहारविषयो भवतीति तेषां मतमासक [? शक] ते । नैवे ( 423 ) त्यादिना ।
एतत् साङ्ख्यपशोः कोन्यः सलज्जो वक्तुमीहते ।
अदृष्टपूर्व्वमस्तीति तृणाग्रे करिणां शतम् ( । १२, प्रमाणवार्तिके २ परि० ) इत्यभिप्रायवानाह । सर्व्वये ( 423 ) त्यादि । यद्यदृष्टमपि तत्रास्ति तदा3ob सर्व्व एव क्षीरादयः सर्व्वे र्घटादिरूपै' रनुमतत्वात् तत्साध्यामर्थक्रियाङकुर्युरित्यर्थः । किञ्चेदमपरं न स्यादिदन्दध्यादिकार्यमतः क्षीरादेर्भवति नान्यतो जलादेः । यदि वा नातः क्षीरादेरिदं मध्वादिकं तथेदङकुङ्कुमादिकमिह कस्मीरा [? कश्मीरा ] विदेशे नेदमिह मालवकादिदेशे यदि वा नेदं चन्दनादिकमिह । तथेदङ्कुन्दादिकमिदानीं शिशिरसमये नत्विदमिदानीन्निदाघकाले । अथवा नेदं कमलादिकमिदानीन्तथेदं खण्डादिकमेव माधुर्यादिगुणविशिष्टं । नेदमेवङकटुकादिरूपं । यद्वा नेदं निम्वादिकमेवमिति व्याख्यातव्यं (1) किङ्कारणमेवमेतदित्यत आह । कस्यचिदपी ( 424 ) त्यादि । इदमेवम्बिधमधुनास्य रूपन्नास्तीति योयविवेकोऽभावस्तस्य हेतोरभावात् । सर्व्वस्य सर्व्वरूपाणां सर्व्वदानुवृत्तेरिति मतिः । नन्विदमनन्तरमेव वस्तुतोऽभिहितमेव सर्व्वं सर्व्वत्र सर्व्वदा समुपयुज्येतेत्यत्र तत्किमिदं पुनश्चर्वितचर्व्वणमास्थीयत इति चेत् । सत्यं पूर्वं कारणगतो व्यापारः कथितो
धुना तु कार्यगत इति विशेषा' ददोषः । इदञ्चान्यतरमुखेण [? मुखेन ] दूषणवचनं शिष्यव्युत्पादनाय । ततश्च भेदाभावान्न विद्येते अन्वयव्यतिरेकौ यस्मिं निति विग्रहः । इदमत्रास्तीत्या' द्यन्वयो नास्तीति व्यतिरेकः । परः प्राह ( 1 ) अवस्थेत्यादिना । एतदुक्तम्भवति । यत्र यद् व्यक्तन्तत्तत्रास्तीत्यादि व्यवहिरयते