________________
१-निग्रहस्थानलक्षणम्
[४१ सत्यतमेत् । स एव तु विपर्ययोनुपलब्धिलक्षणप्राप्तेषु न सिध्यति। तत्र पुनरिदमनिच्छतोप्यायातं । यस्येदं सामर्थ्यमुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्वयवहारविषय : सामर्थ्यलक्षणत्वात्सत्त्वस्येति । तथापि कोऽतिशयः पूर्वकादस्य (1) न हि स्वभावादर्थान्तरं सामर्थ्य तस्योपलब्धिलक्ष10- 4a णप्राप्तस्य योनुपलम्भः स स्वभावस्यैवेति पूर्वकैवेयमनुपलब्धिः (1) तस्मादनेन कचित्केषाञ्चिदसद्वयवहारमभ्युपगच्छताऽतोनुपलम्भादभ्युपगन्तव्यो न वा कचिद्विशेषाभावात् । सोन्यत्रापि तथाविधेऽविशिष्ट इति सोपि तथास्त्विति व्याप्तिः। सर्व एवंविधोऽनुपलब्धोऽसद्वयवहारविषय इति।
तत्र पुनरनिच्छतो प्यायातं तव। यस्येदमर्थक्रियासामर्थ्यमुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्व्यवहारविषय इति। कुतः सामर्थ्यलक्षणत्वात् सत्वस्य । भवत्वेवङको दोष इति चेदाह। तथापि कोतिशयः (3bro) पूर्वकादस्मादुपवर्णितादुपलभ्यानुपलम्भात्। अस्य सामर्थ्यानुपलम्भस्य भवत्परिकल्पितस्य। स्यात् मतं स स्वभावस्यैवानुपलम्भोऽयं तु पुनः सामर्थ्यस्येत्यत आह । न ही (3b10)त्यादि। तथा च तस्य सामर्थ्यस्य योनुपलम्भः स स्वभावस्यैव इति तस्मात् पूर्वकैव स्वभावानुपलब्धिरेवेयं सामर्थ्यानुपलब्धिः । तस्माद् दृश्यानुपलब्धिरेवासद्व्यवहारसाधनेति स्थितमेतत् । यस्माच्चैवन्तस्मादनेन वादिना क्वचिच्छशविषाणादावसद्व्यववहारमभ्युपगच्छता दृश्यानुपलम्भावभ्युपगन्तव्यो- 30a ऽन्यस्य तत्प्रतिपत्त्युपायस्याभावादिति भावः। ततः सोनुपलम्भोऽन्यत्रापि सामान्य. विशेषसंयोगावय विद्रव्यादौ तथाविधे उपलब्धिलक्षणप्राप्ते अविशेष इति सोपि सामान्यविशेषादिस्तथास्त्वसद्व्यवहारविषयत्त्वेनास्तीत्यर्थः। स्यावेतन्नैव सामान्यविशेषादिस्तथाविधोनुपलब्धोस्य सद्वयवहारविषय इत्यत आह । न वा क्वचिच्छशविषाणादावसद्वयवहारो ऽभ्युपगन्तव्यः । कुतो विशेषाभावादनुप लम्भस्य । अयमत्रार्थों द्वयोरनुपलम्भे तन्निमित्ते तुल्येपि यद्यसद्व्यवहारः सामान्यादौ नोत्पद्यते । अन्यत्रापि तहि स नाभ्युपेयो विशेषहेत्वभावादि'त्यनेन च पूर्वोक्तमेव कस्य चिदसतोभ्युपगमे तल्लक्षणाविशेषादिति स्मारयति । तस्मा त्सर्च एवंविधो दृश्यानुपलम्भोऽसद्व्यवहारस्य विषय (4a2) इति व्याप्तिः। अनुपलब्धौ सिद्धतिशेषः॥०॥