SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ वादन्यायः ४०] भेदः सिध्यति । एवमर्थान्तरं, तथाप्यवयवी न सिध्यति । यथाप्रत्ययं संस्कारसन्ततौ स्वभेदोत्पत्तरर्थक्रियाभेदः । अरणिनिर्मथनावस्थादाविवाग्नेः स्थूलकरीषतृणकाष्ठदहनशक्तिभेदस्तथा यथाप्रत्ययं स्वभावो [?व भेदोत्पत्तेस्तन्त्वादिष्वर्थक्रियाभेदः। एतेन बुद्धिव्यपदेशभेदाभेदौ व्याख्याती। तत्र यदुक्तमर्थक्रियातः सत्ताव्यवहारसिद्धिविपर्ययाद्विपर्यय इति, क्रिया पटे दृश्यत इति (3b7) पक्षधर्मोपदर्शनमिति। तस्मात् सत्ताभेदस्तन्तुपटयोः सिद्ध इति शेषः। तदनेन साधनफलं सङकीर्तितं । स्वभावहेतुश्चायं यस्मात्तददृष्टार्थक्रियाकरणमात्रानुबन्धी सत्ताभेद इति। तदेतेन तन्तुभ्यः पटस्यान्यत्वं साधयन्नर्थान्तरभूतावयविसिद्धिं मन्यते॥ आचार्यस्त्वाह॥ सिध्यत्येवं तन्तुपटयोः सत्ताभेद इति प्रकृतं ॥" वांछितार्थसिद्धिस्तु भवतो नैवास्तीत्यभिप्रायवा नाह। अर्थान्तरन्तथाप्यवयवी नसिध्यतीति (3b7) कुत एतद्यतो यथाप्रत्ययमस्यां संस्कारसंततौ स्वभावभेदोत्पत्तेः कारणादर्थक्रियाभेदः प्रावरणादिलक्षणो भवति। एतदुक्तं भवति पिण्डीकृतेभ्यस्तन्तुभ्य उपादानकारणभूतेभ्यः कुविन्दादिसहकारिप्रत्ययसन्निधानाच्च विशिष्टसन्निवेशावच्छिन्ना एव तन्तवो जायते। ये प्रावरणाद्यर्थक्रिया (या)मुपयुज्यन्ते। तेभ्यश्च पूर्वेभ्यः पटस्यान्यत्वमिष्टमेवास्माभिरपि । न तु विशिष्टसंस्थानावच्छिन्नेभ्य इति त्यज्यतामियमर्था न्तरा वयविसिद्धिप्रत्याशेति। तदेतेनैवाविद्धकर्णोक्तं पूर्वोत्तरकालभावित्वादित्यादि 29b तत्साधनमपहस्तितं वेदितव्यं। अस्माभिस्तु विस्तरेण प्राक् प्रयुक्तमेवेति । न पुनर्योज्यते। किम्वत् प्रत्ययवसात् [? वशात्] स्वभावविशोषोत्पत्तेरर्थकियाभेद (3b7) इत्याह । अरणिनिर्मथना (3b7)दित्यादि सुज्ञानं (1) दृष्टान्तं प्रदर्यदान्तिकमाह। तथा यथे (3b8)त्यादि। अनेनैव यथाप्रत्ययस्वभावभेदेनयदेके चोदयन्ति । ननु च तन्तवः पट इति बुद्धिव्यपदेशभेदात्। कथमस्यान्यत्वं नास्तीति तत्प्रतिक्षिप्तमित्याकूतवानाह। एतेन बुद्धिव्यपदेशभेदौ व्याख्याताविति (3b8)। तत्रैवं स्थिते यदुक्तं प्राक्त्वयाऽर्थक्रियातः सद्व्यवहारसिद्धिर्भवति विपर्ययाच्चार्थक्रिया निवृत्ते विपर्ययोऽसद्व्यवहार' इति सत्यमेतत्। एतावत्तुब्रूमः। स एव विपर्ययोऽर्थक्रियाया अनुपलब्धिलक्षणप्राप्तेषु न सिध्यति । तथाहि यद्ययमुपलब्धिलक्षणप्राप्तानुप'लम्भो नेष्यते तदास्यार्थक्रियासामर्थ्य नास्तीति कथमधिगतं भवता (1) न चानुपलब्धिमात्रादिति युक्तम्वक्तुं । तस्य व्यभिचारात्।
SR No.002368
Book TitleVadnyaya
Original Sutra AuthorN/A
AuthorShantrakshit Acharya
PublisherMahabodhi Sabha
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy