________________
१-निग्रहस्थानलक्षणम्
[ ३९ घटः। एवन्तावन्न बुद्धिव्यपदेशाभ्यां सत्ताव्यवहारः सत्ताभेदाभेदव्यवहारो वा । अत एव न तद्विपर्ययाविपर्ययः । अर्थक्रियातस्तु सत्ताव्यवहारः स्यात् । न सत्ताभेदाभेदव्यवहार (:,) एकस्याप्यनेकार्थक्रियादर्शनात् । यथा प्रदीपस्य विज्ञानवर्त्तिविकारज्वालान्तरोत्पादनानि । अनेकस्यापि चक्षुरादेरेकविज्ञानक्रियादर्शनात् । न क्रमाऽर्थक्रियाभेदमात्रेण सत्ताभेद इति किन्तर्हि [?न्तर् ] ह्यदृष्टार्थक्रियाभेदेन । या अर्थक्रिया यस्मिन्नदृष्टा पुन श्यते सा सत्ताभेदं साधयति । यथा मृद्यदृष्टा सत्युदकधारणाद्यर्थक्रिया घटे दृश्यमानाऽदृष्टापि तन्तुषु प्राव(र)णाद्यर्थक्रिया पटे दृश्यत इति सत्ता
संहरति। तदित्यादिना। मूलप्रकरणमपि निगमयति। एवन्तावदि (3b3)त्यादिना। अत एव न तेषाम्बुद्ध्यादीनाम्विपर्ययात्तेषां सत्तादीनाम्वि पर्ययोऽभावः। योहि यस्य भावमेव न साधयति स कथमिव वर्तमानस्तदभावं साधयतीत्याकृतं । यदि नाम बुद्ध्यादयः सत्ताम्भेदाभेदौ वा न साधयन्त्यर्थक्रिया तु तान्साधयिष्यतीत्यत आह। अर्थक्रियातस्तु सत्ताव्यवहारः स्यादि (3b4)ति तल्लक्षणत्वात् सत्त्वस्येति भावः। अनेनावयोरत्र साम्यमेवेति दर्शयति । अन्यत्र तु विवाद इत्याह । न सत्ताभेदाभेदव्यवहार (3b4) इति। कुत एकस्याप्यनेकार्थक्रियादर्शनात् । तत्र नैकप्रत्ययजनितं किञ्चिदस्ति तत्कथ मेवमुच्यते। सत्यमेतदेकं तु बह्वीषु सामग्रीषु वर्त्तत इत्यनेकार्थकृदित्युच्यते। यदाह॥
न किञ्चदेकमेकस्मात् सामग्रया सर्वसम्भवः ।
एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृदिति ॥ (११) किम्वत्। यथा प्रदीपस्य विज्ञानस्य वत्तिविकारस्य ज्वालान्तरस्य च स्वपरसन्तानसम्बन्धिक्षणान्तरस्योत्पादनानि तदेवं सत्ताभेदव्यवहाराभावे कारणं। कथमेकमनेक कार्यमुत्पादयतीति चेति। एकस्यैव ईदृशस्यानेककार्यजननात्तुर्यातिशयक्रोडी'कृतं रूपवतः स्वहेतुभ्यः संजातत्त्वादिति भावो न्यायतत्त्वविदः । तथानेकस्यापि चक्षुरादेरेकविज्ञानक्रियादर्शनात्। अभेदव्यवहाराभावे कारणमेतत्। कणभुगमतविपर्यासितधियस्त्वाहुः। न ब्रूम इत्यादि। किन्तहर्यदृष्टार्थ क्रियाभेदेन सत्ताभेद इति वर्तते। तदेव व्यनक्ति। यार्थक्रिया (3b6)मध्वाद्या' 29a हरणादिलक्षणा तस्मिन्घटादावदृष्टा सती पुनर्दश्यते । अन्यत्र घटादौ। सैवम्विधा सत्ताभेदं साधयति । तेषां घटादीनामनेन व्याप्तिः कथिता। किमिव।। यथा पटेऽदृष्टा सत्युदकधारणाद्यर्थक्रिया घटे दृश्यमाना (3b7) सत्ताभेदं साधयतीति प्रकृतेनाभिसम्बन्धः। दृष्टान्तकथनं चैतत् । अदृष्टा च तन्तुषु प्रावरणद्यर्थ