________________
वादन्यायः
३८] प्रत्यक्षत्त्वं यदनात्मरूपादिविवेकेन स्वरूपस्य बुद्धौ समर्पणं । अयं पुनर्घटादेरमूल्यदानक्रयीयः स्वरूपञ्च नोपदर्शयति प्रत्यक्षताञ्च स्वीकर्तुमिच्छति । एतेन बुद्धिशब्दादयोपि व्याख्याता यदि तैस्तत्साधनमिष्येत । न च प्रत्यक्षस्यानभिभवे रूपानुपलक्षणं, येन तत्साधनाय लिङ्गमुच्यते । अप्रत्यक्षत्वेप्यप्रमाणस्य सत्तोपगमो न युक्तः। तन्न रूपादिभ्योन्यो
भासनमभ्युपगन्तव्यमन्यथा प्रत्यक्षत्वासिद्धेः। कुतो य स्मादिदमेवेत्यादि सुबोधं । अयम्पुनर्घटादिर्भवद्भीरूपादिव्यतिरेकेणाभ्युपगतः। को सावमूल्यदानक्रयीयः। तदेतेन नायमीदृशो लोकव्यवहारपद्धति मवतरतीत्याचष्टे । स स्वरूपञ्च नोत्कर्षेण दर्शयत्यप्रतिभासमानत्वाप्रत्यक्षताञ्च स्वीकर्तुमिच्छति दार्शनं स्पार्शनञ्च द्रव्यमिति सिद्धान्ते पाठात् । इत्येतदात्मनिरन्तरप्रेमाणः सुहृदः प्रत्येष्यन्ती
त्यध्याहर्त्तव्यं । मूल्यदानक्रया विद्यन्तेस्येति मूल्यदानक्रयी न तथेति वृत्तिः। अथवा 28a ऋतुं शीलं यस्यासौ क्रयी मूल्यदानेन यी न तथा। कथमेतदित्याह। यः प्रत्यक्षता (3b2)मित्यादि। मूल्यदानञ्चात्र स्वरूपार्पणमित्युपहसति।
ननु चैको घट इति प्रत्ययव्यपदेशसभावाद्रूपादिवत् तदस्त्येव। तत्कथमस्यासत्वमिति चेदाह बुद्धिशब्दादयोपि व्याख्याता न च सर्व इत्यादिना। आदिशब्देन तद्भेदाभेदोपादानं। यदि तैवुद्धिव्यपदेशादिभिस्तस्य साधनसिद्धिरिष्यते। स्यादेतत्प्रतिभासमानमपि द्रव्यं लवणरसाभिभवे खण्डरसवन्नोपलक्ष्यते। ततस्तत्प्रसाधनाय लिङगमुच्यत इत्यत आह । न च प्रत्यक्षस्यार्थस्य रूपानुपलक्षणं (3b3) युक्तं। द्रव्यान्तरेणानभिभवे सति । अभिभवे तु युक्तमेव । यथा खण्डादिरसस्य। न चात्र केनचिदभिभवोस्ति। नीलादिभिरस्तीति चेति। न महत्यने कद्रव्यवत्ताद्रूपाच्चोपलद्धिः। तथा रूपसंस्काराभावाद्या वानुपलब्धिरित्युक्तं। तस्य चानुपलक्षणे तेषामप्यनु (प)लक्षणप्रसङगः। ततश्च सर्वपदार्थानामनुपलक्षणाल्लोकव्यवहारोच्छेद एव भवेदिति मन्यते। येनानुपलक्षणेन तस्यावयविनः साधनाय लिङगमुच्यते। तद्भावसाधनञ्च लिङगमभ्युपगम्येत तद्भाष्यते न तु तद्गमकं लिङग किञ्चिदप्यस्ति। यथोक्तम्प्राक् । तत्प्रतिपादकप्रमाणाभावेपि तदस्त्येवेति चेदाह (1) अप्रत्यक्षत्वेप्यप्रमाण'स्य सत्वोपगमोऽयुक्त (3b3) इति। अप्रमाणस्येत्यनेन प्रत्यक्षव्यतिरिक्ततत्प्रसाधकप्रमाणाभावमाह। यस्य सद्भावसाधकं प्रमाणं नास्ति न तदस्तीत्यङगीकर्त व्यं। यथा
नभस्तले कमलं नास्ति चावयविनोऽस्तित्वसाधकं प्रमाणमिति सद्व्यवहारप्रति28b षेधफलामनुपलब्धिं मन्यते। एवं विस्तरेणैकद्रव्याभावं प्रतिपाद्य प्रकृतमुप