________________
१-निग्रहस्थानलक्षणम्
[३७ प्रतिभासमानाश्च विवेकेन प्रत्यक्षार्था दृश्यन्तेऽपृथग्देशत्त्वेपि गन्धरसादयो, वातातपस्पर्शादयश्चैकेन्द्रियग्राह्यत्त्वेपी[पि । इ] दमेव च प्रत्यक्षस्य
गन्धरसवत् । न च तस्मादव्यतिरिक्त एवायं तत्र चायन्दोष इत्यागूर्याह । सोतिशयो 27a व्यवच्छेदलक्षणस्तस्यातिशयवतोऽवस्थातुरात्मभूतोऽनन्वय इत्येकान्तेन निवर्त्तमानः। व्या पकत्वाभावात्प्रवर्तमानोऽसन्नेव कथन्न स्वभावनानात्वं सुखदुःखधीरिवाकर्षति । अन्वाकर्षत्येवेत्यर्थः। प्रयोगो [? प्रयोगः] पुनर्यो यस्यात्मभूतः स तन्निवृत्तावेकान्तेन निवर्तते प्रवृत्तौ चासन्नेव प्रवर्त्तते यथा तस्यैवातिशयस्यात्मा। आत्मभूतश्चातिशयस्यातिशयवानिति स्वभावहेतुः। ततश्च तयोरवस्थ योरवस्थातु नात्वम्परस्परविरोधिपर्याध्यासितत्वात् सुखदुःखवदितिस्वभावहेतुरेव। न वा सावतिशयोऽनन्वयः प्रवर्त्तते निवर्त्तते वाऽतः पुर्वस्मिन् प्रमाणे साध्यविकलत्वन्दृष्टान्तस्य। उत्तरत्र त्वसिद्धिर्हेतोरिति चेदाह। सान्वयत्वे चातिशयस्य निवृत्तिप्रवृत्योरं गीक्रियमाणे का कस्य निवृत्तिः प्रवृत्तिति (4b4)। नैव काचित् कस्यचिन्निवृत्तिः प्रवृत्तिर्वा । सर्वस्य सर्वदा सत्वात् । तथा च सर्व सर्वत्र समुपयुज्यतेत्यादिना पुरोनुक्रान्तो दोषोनुपयुज्यत इत्यभिप्रायः । उपचयमाह। यदि च कस्यचित् स्वभावस्यातिशयाख्यस्य प्रवृत्तिनिवृत्तिर्वेति स्वयमभ्यनुज्ञा'यते त्वया। एकातिशयनिवृत्याऽपरातिशयोत्त्पत्या व्यवहारभेदोपगमादित्यभिधानात् तदेतदेव परस्तथागतवचोऽभ्यासोपजातावदातमति बुवाणः । नानुमन्यते भद्रमुखेण [? मुखेन भवेदेवं यदि यथामया प्रवृत्तिनिवृत्ती अभ्यनुज्ञायते तथा तेनापि। यावतास्य निरन्वयोपजननविनाशोपगमसम त्वाद् द्रव्यस्यालोकनीलादि- 27b वत्तद्वयतिरेकेणाप्रतिभासनमभिन्नेंद्रियग्राह्यत्वाद्वा तद्वदेवेत्यतआह । प्रतिभासमानाश्च विवेकेने (3b1)दं नीलमिदं सुरभि मधुरं कर्कशमिद मिति चेति प्रत्यक्षा अर्था दृश्यन्तेऽपृथग्देशत्वेपि सति के ते रूपादयः। लोकप्रसिद्धया चेदमुक्तन्न तु तेषामभिन्नदेशत्वमस्ति । सप्रतिघा दश रूपिण (अभिधर्मकोशे ११२९) इति वचनात् । तथा ऽभिन्नेन्द्रियग्राह्यत्वेपि वातातपस्पर्शादय (3ba) इति यथाक्रमं चैतदुत्तरं। अनेनैकान्तिकत्वं हेतोरुद्भावयति। उपेत्य च धर्मिसम्बन्धं अभिन्नेन्द्रियग्राह्यत्वस्य व्यभिचार उक्तो नत्वसावस्यास्त्येकदेशासिद्धः। कथं । यतो न सुरभिमधुरादयो द्रव्यग्राहकेन्द्रियग्राह्याः। सार्वेन्द्रियत्वप्रसङगाद् द्रव्यस्य। आलोकनीलादीनां त्वभेद एव यतः प्रदीपादिसन्निधानात प्रकाशरूपा एव तथाविधस्वभावाध्यासितवपुषस्ते समुद्भवन्ति न तु तेषां भेदोऽस्तीति साधनविकल्पताऽपि दृष्टान्तस्येति मन्यते। तस्मादस्य प्रत्यक्षत्वमभ्युपगच्छद्भिर्न बहिरवश्यं रूपादिविवेकेन प्रति