________________
१-निग्रहस्थानलक्षणम्
[१९ त्रिविधेन विप्रकर्षेण विप्रकृष्टं । यदनात्मरूपप्रतिभासविवेकेन प्रतिपत्तृप्रत्यक्षप्रतिभासरूपं ।, तादृशः सत्स्वन्येषूपलम्भप्रत्ययेषु तथानुपलब्धोऽसद्वयवहारविषयस्तोन्यथा। सति लिने संशयः। अत्रापि सर्वमेवं- :
तज्जातीयानां' अन्येषाम्प्रभाववता वा। तत्किन्तेषामप्यनुपलब्धिसाधनं साधनाङगसमर्थनम्भवति। नेत्याह। प्रतिपत्तुः। एतदुक्तम्भवति (1)य एवासौ प्रतिपाद्यस्तस्यैव यदुपलब्धिलक्षणञ्चा याति तस्यैवानुपलब्धिसाधनं नान्यस्येति । कि पुनः कारणमेवम्प्रकारस्यैवानुपलब्धिसाधनं। नान्यस्येत्याह। तादृश्या एवा- 14a नुपलब्धरसद्व्यवहारसिद्धेरिति (2a8)। अनुपलब्धिलक्षणप्राप्तानुपलब्धेः संशयहेतुतया अगमकत्त्वादिति भावः। असद्व्यवहारसिद्धेरिति वचनमसद्वयवहार एव तया साध्यते न त्वभावः स्वभावानु'पलब्धः स्वयमभावरूपत्वादिति प्रदर्शनार्थ। असद्व्यवहारग्रहणञ्चोपलक्षणार्थ । तेनासज्ज्ञानशब्दावपि ग्राहयौ। एतत्पुनः कुतोऽवसीयते इति चेदाह॥ अनुपलब्धिलक्षणप्राप्तस्यार्थस्य प्रतिपत्तुः प्रत्यक्षं तदेवोपलब्धिस्तस्यानिवृत्तावपि सत्यामभावासिद्धेः (2a9)। अभावग्रहणमभावव्यवहारशब्दज्ञानोपलक्षणं। उपलब्धिलक्षणञ्च ज्ञानपरिग्रहेण तत्प्रमितवस्तुव्युदासाय । का पुनरियमुपलब्धिलक्षणप्राप्तियद्योगादुपलब्धिलक्षणप्राप्त इत्युच्यत इत्याह । तत्रेत्यादि (2a9)। तत्र श्रुतिवचनोपन्यासार्था। स्वभावविशेषः। किमियदेव। नेत्याह। कारणान्तरसाकल्यञ्च । तस्मास्वभावविशेषाद्यान्यन्यानि कारणानीन्द्रियमनस्कारादीनि तानि कारणान्तराणि तेषां। साकल्यं सामनचं । स्वभावविशेषापेक्षया समुच्चयार्थश्चकारः । कः पुनरयं स्वभाव विशेष इत्याह। स्वभाव इत्यादि (2a9) । यद्ययं त्रिविधेन विप्रकर्षण व्यवधानेन देशकालस्वभावलक्षणेन न विप्रकृष्टं मेरुरामसुरादिरूपवत् स्वभावविशेष उच्यते। तमेव स्पष्टयति। यदि (2a10) त्यादिना। न आत्मरूपोऽनात्मरूपः पररूप इत्यर्थः। स चासौ प्रतिभासश्च तस्य विवेकोऽभावस्तेनाकारेण यत्प्रतिपत्तुः प्रत्यक्षन्तत्राप्रतिभासितुं शीलं यस्य रूपस्य स्वभावस्य तद्रूपन्तथोक्तं। अथवा रूपशब्देण[?न] सह विशेषणसमासः कार्यः। सत्युपलम्भप्रत्ययान्तरसा कल्य इत्युपस्क्रियते । यः सजातीयविजातीयरहितेनात्मना I4b प्रतिभासते स्वज्ञाने तदन्यकारणसमवधाने सति स स्वभाव इति यावत्। तादृश इति विविध विप्रकर्षाविप्रकृष्टरूपः पदार्थस्तथाऽनात्मरूपप्रतिभासविवेकेन प्रतिपत्तृप्रत्यक्षप्रतिभासेनाशयेनानुपलब्धः स न असद्व्यवहारस्य विषयो भवति।' असद्व्यवहारप्रतिपत्तियोग्यो भवतीत्यर्थः। विद्यमानोपीन्द्रियस्यालोकस्य मनस्का