________________
२०]
वादन्यायः
विधमसद्व्यवहारविषय इति व्याप्ति:, कस्य चिदसतोभ्युपगमे तल्लक्षणाविशेषात् । न ह्येवंविधस्यासत्त्वानभ्युपगमेऽन्यत्र तस्य योगः । न ह्येवं
रस्य वाऽभावान्नोपलभ्यते तादृशस्तत्कथमसद्व्यवहारविषयो भवतीति चेदाह । सत्स्वन्येषूपलम्भ (2a10 ) कारणेष्विति ।
5
नन्वविप्रकृष्टोपि घटादिरुपलम्भकारणान्तरसमवधानेपि च सन्तानविपरिणामापेक्षत्वान्नोपलभ्यते । नहि हेत्वन्तरसन्निधानमिति स्वफलोत्पादनानुगुणः परिणामो भवति कारणस्य (1) तथाहि सत्यामपि पृथिवीबीजजलादिसामग्रयामतिबहुनैव कालेन तालबीजस्य स्वकार्योदयानुकूला परिणतिर्भवति । शणादिबीजस्य त्वनन्तरमेव तथात्रापि भविष्यतीति । किञ्चान्यत्प्रभाववतायोगे पिशाचमायाकारादिनाऽधिष्ठितो भवति यदायं भावस्तदा विद्यमानोपि नोपलभ्यते तत्कथमुक्तं तादृशः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धोऽसद्व्यवहारविषय इति । नूनम्भवान्न्याय विन्दा (व) १ प्यकृतपरिश्रमः । तथाहि अत्रोक्तं स्वभावो य... सत्स्वन्येषूपलम्भकारणेषु सन्प्रत्यक्ष एव भवतीति । यश्चायं सन्तानपरिणामम' पेक्षते यश्च प्रभाववताधिष्ठितः स स्वभावविशेष एव न भवति । सकलतदन्योपलम्भस्वरूपविषयोपलम्भजनकत्वात्तथैवंविधस्य पिशाचादिIya प्रत्ययसमवधानेपि स्वभावाविशिष्टरूपस्याभावव्यवहारविषयता साध्यते । किन्तर्हीन्द्रियाण्युपलम्भप्रत्ययान्तरसन्निधाने यः सन्प्रत्यक्ष एव भवति तस्य । नैवन्तहि सर्वथाऽभावः साधितो भवतीति चेत् सुष्ट्वनुकूलमाचरसि । यतोऽनन्तरमेवोक्तं । य एवायमनुपहतेन्द्रियादिसाकल्ये दर्शनपथमुपयाति । तस्य च तत्साकल्येऽनुपलम्भेस्य च व्यवहारविषयता साध्यते न तु पिशाचादिस्वभावाविशिष्टरूपस्येति । न च तथाविधस्यापि सकलतदन्योपलम्भप्रत्ययसमवधानेऽनुपलब्धस्या "स्तित्वं युक्तमनुपलब्धेरेवायोगात् । उपलम्भजनने कस्यचिदपेक्षणीयस्याभावात् । प्रमाणविनिश्चये तु स्पष्टीकृतमेवेदं । न कार्यकालेऽभावप्रतिपत्तेरित्यादिना । एतेनैव "यदेकेनावश्यं सामग्रिसाकल्येपि परिणामस्तालगणबीजवदित्यादिना स तमतिशयवत् मतिमतो मनागप्यनव' गच्छन्तश्चोद्यचुञ्चवश्चोचुदुस्तत्र सर्वमयं दुःस्थितं वेदितव्यमित्यलमप्रतिष्ठितबालप्रलापैरिति विरम्यते । तस्मादुपलब्धियतश्चैतदेवं लक्षणप्राप्तानुपलब्धिरेवाभावव्यवहारसाधनीति स्थितमेतत् । ततस्तस्मात्कारणादन्यथा सति लिङगे समवाय उपलब्धिलक्षणप्राप्तानुपलब्धि
1
१ न्यायविन्द द्वितीयपरिच्छेदे लिङ्गस्य त्रिषु भेदेष्वेकः ।