________________
वादन्यायः
१८] भावे तद्भावनियमाऽभावादारब्धार्थासिद्धेवस्तुतः कार्यस्या' प्युपादाने तदप्रतिपादनात् ॥ त् ॥ ___अनुपलब्धावपि प्रतिपत्तुरुपलब्धिलक्षणप्राप्तस्यानुपलब्धिसाधनं समर्थनं 'ताशस्यात्र चानुपलब्धेरसद्वयवहारसिद्धेः । अनुपलब्धिल:क्षणप्राप्तस्य प्रतिपत्तप्रत्यक्षोपलब्धिनिवृत्तावप्यभावासिद्धः। तत्रोपलब्धिलक्षणप्राप्तिः स्वभावविशेषः। कारणान्तरसाकल्यञ्च/स्वभावविशेषो यन्न
न्यादेर्भावनियमाभावात्। नियमग्रहणं यदृच्छासम्वादनिरा सार्थ । अर्थान्तरस्यापि तद्भावे प्रतिबद्धस्वभावस्य भावे भवत्येव तद्भावनियम इत्यत आह । तद्भावाप्रतिबद्धस्वभावस्ये (2 a7)ति । तद्भावेऽग्न्यादिभावेऽप्रतिबद्धोऽनायत्तः स्वभावोऽस्येति विग्रहः। एतच्चान्तरस्य भावे तद्भावनियमाभावादित्येतस्य कारणमवगन्तव्यं । प्रयोगः, पुनर्योऽर्थान्तरभूतो यस्मिन्न प्रतिबद्धस्वभाव - स्तस्य भावे न तद्भावनियमः। तद्यथा नूपुरस्य भावे मुकुटस्य। अर्थान्तरभूतश्चायं धूमादिरप्रतिबद्धस्वभावस्तस्मिन्नग्न्यादाविति व्यापकानुपलब्धिः। व्यापकविरु द्धोपलब्धिविधिना वा हेत्वर्थकल्पनातभावाप्रतिबद्धस्वभावत्त्वमेव कुत इत्याह (1) कार्यत्त्वासिद्धे (2a7) रिति । एतत्पुनरसमथिते तस्मिनि[? नि]ति बोद्धव्यं । तत् च परमार्थतस्ते'न कार्यहेतुरेवोपात्तस्त्तद्यदि नाम तकार्यन्तेन न समर्थितं तथाहि कथमसौ निगृहीत इत्याह । वस्तुतः कार्यस्याप्युपादानप्रतिपादनादि (2 a 8)ति तत्कार्यत्वस्येति विशेषः॥०॥
एवं कार्यहेतावपि साधनाङगसमर्थनमभिधायानुपलब्धावाह । अनुपलब्धावपि समर्थन (2a8) मिति सम्बन्धः । साधनाङस्येत्यध्याहार्य । किं पुनस्तदित्या ह। अनुपलब्धिसाधनं । कि यस्य कस्यचिन्नेत्याह । उपलब्धिलक्षणप्राप्तस्येति (2a8) । दृश्यस्वभावस्य नान्यस्येति यावत् । उपलब्धिआनं। उपलब्धिशब्दस्य भा वकरणसाधनतया ज्ञानपर्यायत्त्वात्तस्या लक्षणङकारणं । लक्षणशब्दस्य करणसाधनत्वेन कृतकाभिधायित्त्वात् । तच्च प्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । तद्व्याप्तस्यानुपलब्धिः। तस्याः साधनं प्रतिपादनमिति व्युत्पत्ति
कथमेवंविधस्यानुपलब्धिरिति चेत् । नोद्यते तस्य तत्रैवेत्यपित्वन्यत्र तज्जातीयस्य । कस्य पुनरेवं विधस्यानुपलब्धिः प्रसाध्यत इत्याह। प्रतिपत्तुः (2a9) प्रतिवादिनः । यदि चोपलब्धिलक्षणप्राप्ताः पिशाचादयोपि भवन्ति