________________
१ - निग्रहस्थानलक्षणम्
[ १७
सिद्धं सत्स्वसम्भवेन तत्सम्भवं साधयति कार्यस्य कारणाव्यभिचारात् । अव्यभिचारे च स्वकारणैः सर्वकार्याणां सदृशो न्यायः । एवमसमर्थनं कार्यहेतावपि साधनाङ्गावच 'नं तद्वादिनः पराजयस्थानं । असमर्थिते तस्मिन् कार्यत्वासिद्धेरर्थान्तरस्य तद्भावाप्रतिबद्धस्वभावस्य
एवाङकार्य कारणभावनिश्चयोपायविधिमुक्त्वा
प्रकृतमुपसंहरति । एवमि (225) त्यादिना । एवं यथोक्तेन विधिना तद्धूमादि तस्य वहन्यादेः कार्य समर्थितं निश्चितं सिध्यति भवति । यदेवासमर्थितमसन्दिग्धं सिध्यति निश्चीयते। अथवा एवं प्रत्यक्षानुपलम्भाभ्यां समर्थत [ ? तं] सत्तत्तस्य कार्यं सिध्यति ।
यदि नाम सिध्यति तत् किमित्याह । सिद्धं सत् स्वसम्भवेन आत्मसन्निधानेन तत्सम्भवं तस्य कारणस्य सन्निधानं साधयति (226) । देशकालाद्यपेक्षयेत्या - ध्याहर्त्तव्यं । एतदुक्तम्भवति (1) कार्यकारणभावनिश्चयात्सिद्धं तदुत्पत्तिलक्षण प्रतिवस्तु यत्रैवमतादृश उपलभ्यते तत्रैव स्वसत्तामात्रेण देशकालाद्यपेक्षया तत् स्वकारणङ्गमयतीति । किं कारणमित्याह ( 1 ) कार्यस्य कारणाव्यभिचारादि ( 26 ) ति । अन्यथा हि तत्तस्य कार्यमेव न स्यात् । तद्वयभिचारात् । यद्वयतिरेकेन [ ? ] यद् भवति तत्तस्य कार्यं युक्तं । कुण्डलमिव केयूर' स्येत्यभिसन्धिः ।
ननु यदि नाम धूमोऽग्निकार्यत्त्वन्न व्यभिचरति । अन्यस्य त्वङकुरादेः स्वकारणैरेव बीजादिभिरव्यभिचार इति कुत एतदित्याह । अव्यभिचारे चे (226) त्यादि । इ' दमुक्तम्भवति । यदा धूमस्य स्वकारणाव्यभिचारस्तदुत्पत्तेः सिद्धस्तदा बीजादिभिरात्मीयैः कारणैः सहाङकुरादीनां सर्व्वकार्याणां सदृशोऽव्यभिचारन्यायः । तथाहि' तेपि यथोक्तप्रकाराभ्यां प्रत्यक्षानुपलम्भाभ्यां तत्कार्यतया सिद्धाः सन्तस्तदव्यभिचारिणः सिद्धयन्ति । एतत्साधनाङगसमर्थनं कार्यहेतौ । एतद्विपरीतञ्चासमर्थनं । तद्वादिनः पराजयाधिकरणमिति दर्शयन्नाह । एवमि ( 26 ) त्यादि । एवमिति प्रत्यक्षानुपलम्भाभ्यां यथोक्तप्रकाराभ्याङकार्यहेतावपि न केवलं पूर्वोक्तेन प्रकारेण स्वभावहेतावसमर्थनम्वादिनः पराजयस्थानमित्यपि शब्दः । कस्मादेवमित्याह । असमर्थित (22 7 ) मित्यादि । असमर्थिते तस्मिन्कार्यकारणभावे* लिङ्गलिङगिनो ( र् ) लिङ्गस्य वा तत्कार्यत्वे आरब्धार्थासिद्धेरिति क्रियापदं ॥ आरब्धोऽर्थः कारणस्य सत्तासाधनं । तस्यासिद्धेस्तत्पराजयस्थानमिति प्रकृतेन सम्बन्धः ।
एतदेव कुत इत्याह । अर्थान्तरस्य ( 227 ) धूमादेर्भावे सत्त्वे तस्या
३