________________
राय प्रवृत्तस्यास्यापि दर्शनस्य तच्छेषतया तत्पदव्यवहार्यत्वान! दोषाय, राजोपकारार्थ प्रकृ. त्तस्य प्रधानामात्यस्योपकारे प्रवर्त्तमानभृत्यवत् । भवति हि प्रधानामात्योपकारी मृत्योपि राजोपकारीति । एतदभिप्रेत्यैव "सर्वेषां शास्त्राणां भगवत्येव तात्पर्य "मिति प्रस्थानभेदे "मधुसूदनसरस्वतीनां" सरस्वती समवातरत् ।
ननु--आस्तिकानां कृते वैदिकतत्त्वनिर्णयाय ईश्वरप्रभवत्वेन निरस्तसमस्तपुन्दूषणतया वेदा एव प्रमाणं तत्किमर्थमेवमुच्यते तर्कस्योपयोग इति ? उच्यते--सत्यमेवमेतत् तथापि महाजनपरिगृहीतागमप्रामाण्यविप्लावनतत्परचार्वाकादिकुतर्ककुठारकुण्ठीकरणक्षमतया ऽस्य शास्त्रस्य वैदिकसिद्धान्तरक्षणे परमोपयोगं मन्यन्ते आगमविद, नहि निरीश्वरवादिदुर्दान्तचार्वाकादिकुमतपरासनमनायासेन न्यायशास्त्राश्रयणमन्तरा भवितुमर्हति । उक्तञ्च स्वयमेव महर्षिणा--
"तस्वाध्यवसायसंरक्षणार्थ जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कण्टकशाखावरणवत्" (न्या० ४ । २ । ४८ ) इति । अत एव “जल्पस्थले संशयस्यावश्यकत्वेऽपि वादस्थले न तथा, इति संशयमन्तरेणापि अनुमित्साधीनानुमितिनिहाय न्यायप्रयोगसम्भवात् '' इति अवयवग्रन्थनिरूपणे “गदाधरभट्टाचार्य" उक्तवान् । तथाच “सन्दिग्धेऽथैन्यायः प्रवर्त्तते इति नियमस्तु जल्प एव नतु वादे" इति चान्यन्त्राप्युक्तम् । संशयादीनामाहृत्य स्वरूपप्ररूपणञ्चास्मिन्नेव शास्त्रे कृतमिति कथं न स्यादस्यापि वेदार्थनिर्णया * योपयोगः ।
अयमभिसन्धिः -एवं हि निरीश्वरवादिनश्चार्वाकप्रभृतय आचक्षते, आकस्मिकमिदलगत् । नास्य कश्चिद् रचयिता ईश्वरो नाम सर्वज्ञः सर्वशक्तिशाली पुरुषविशेषः । भूमिवार्यनलानिलानां भूतानां विजातीयसंयोगात् किण्वेभ्यो मदशक्तिरिव चितिशक्तिरुत्पद्यते उत्तरोत्तरञ्च पदार्थस्वभावा विकसन्तो नानाविधरचनाभित्तीश्चित्रयन्तो दरीदृश्यन्ते । यत्र च "अहं स्थूलः अहं कृश" इति सामानाधिकरण्यप्रत्यय उदेति स एव भोक्तापरपर्यायो देह आत्मा, तदतिरिक्त आत्मनि प्रमाणाभावात् । प्रत्यक्षातिरिक्तञ्च नास्ति प्रमाणम् । नवा परलोकः सुकृतासुकृतसन्धानक्षमो नियन्तृविशेषापेक्षोऽपीत्यादि । तत्रैवजातीयकानां कुतर्काणां समूलोन्मूलनं तर्कशास्त्रादेव भवितुमर्हति । अतएवोत्तरमीमांसायमपि दुर्दान्तवादिमतदलदलनाय श्रुतिप्रमाणापेक्षां परिहाय शास्त्रार्थाहबे केवलस्तकंपादः पदातिमुख्यतां नीतः । तच्च तत्रैव कणेहस्य निरीक्ष्यम् । यदि प्रत्यक्षातिरिक्तमनुमानं प्रमाणं न स्यात् कथं तर्हि अप्रतिपन्नाः सन्दिग्धाः विपर्यस्ताश्च पुरषा: प्रतिपद्येरन् । अर्थात् “अयमज्ञानी, अयं संशयाकुलः, अयं भ्रान्तिमान्" इति ज्ञातुं चार्वाकादिः कथं प्रभवेत् यदि नामानमानं प्रमाणं न स्यात् । नहि कश्चिदपि गौरत्वादिदेहधर्ममिव पुरुषान्तरवर्तिनोऽज्ञानादीन् कल्पकोटिभिरपि प्रत्यक्षेणाध्यक्षीकर्तुं क्षमते। मा नाम योगिप्रत्यक्षविषयान् परकीयाज्ञानादीन्
Ram
-
-
-
-
-
-
ॐ वेदार्थ ईश्वरादिः।