________________
अथ "न्यायतत्त्वसमीक्षा" भूमिका |
• न्यायदर्शनम् - प्रमाणैरर्थपरीक्षणं "न्यायः " दृश्यतेऽनेनेति “दर्शनम् ” न्यायस्य दर्शनम् " न्यायदर्शनम् ” “ न्यायशास्त्र " मिति यावत् । शास्त्रं दर्शनमित्यनर्थान्तरम् । "असाधारण्येन व्यपदेशा भवन्ति" इति न्यायेन परार्थानुमानापरपर्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया च प्रधानत्वेन तथा व्यपदेशोपि युज्यते । उक्त सर्वदर्शनसंग्रहे - " सोऽयं परमो न्यायः, विप्रतिपन्नपुरुषप्रतिपादकत्वात् तथाप्रवृत्तिहेतु'स्वाच्च" इति । तदिदं गोतममुनिप्रणीतं " प्रमाणप्रमेयसंशयप्रयोजन.” (न्या० १-१ - १ ) इत्याद्यारभ्य " हेत्वाभासाश्च यथोक्ताः ( न्या० ५-२-२५ ) इत्येतत्पर्यन्तं पञ्चाध्यायात्मकं सूत्रोपनिबद्धं शास्त्रं “न्यांयशास्त्रं “न्यायदर्शनम् " वेत्युच्यते । उक्तञ्च " वात्स्यायान" मुनिना " प्रत्यक्षागमाश्रितमनुमानं न्याय: ' । " प्रत्यक्षागमाश्रित" मिति प्रत्यक्षागमाऽविरोधि । यदि ह्यनुमानाधिगतोऽर्थः प्रत्यक्षागमाभ्यामनुसन्धीयते, अथ स्फुटतरप्रत्ययो भवतीति न्यायवार्त्तिकेऽप्युक्तम् । इयमेव "आन्वीक्षिकी विद्या" इत्युच्यते । सेयम्:
""
-
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।
श्राश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्त्तिता ॥
-“ वेदार्थाविरोधितर्कौपयिकवैदिकतत्त्व संरक्षणोपयोगिप्रमाणादिपदार्थप्रतिपादकत्वं
ततध-
"न्यायशास्त्रत्व” मित्युक्तम्भवति । मनुरप्याह-
आर्ष धर्मोपदेशम्य वेदशास्त्राऽविरोधिना,
. यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः । इति
( मनु० अ० १२ - श्लोक १०७ )
मोक्षधर्मेऽपि --
तत्रोपनिषदं तात ! परिशेषन्तु पार्थिव ! ।
मध्नामि मनसा तात ! दृष्ट्वा चान्वीक्षिकीं पराम् ॥
इत्युक्तम् । यश्चपि वेदशास्त्राऽविरोधितर्कपदेन पूर्वोत्तरमीमांसारूपस्यैव तर्कस्य साक्षादुपादानानं कर्तुं योग्यम्, तथैव च विवक्षितम्, तस्यैव विचाररूपस्यासम्भावनाविपरीतभावमानिवर्तकतया वेदात्मकप्रमाणानुग्राहकत्वात्, अत एव " स्वाध्यायवन करणं घटते विचार" इत्यादि सर्वशात्ममुनिभिरप्युक्तं, ततश्च तदितरतर्कवैयर्थ्य मागतं भवति, तथापि तदुपका