________________
( ३ )
चार्वाको वराको ज्ञासीत् अज्ञात परकीयाज्ञानसंशयविपर्यासस्तु यं कञ्चनापि पुरुषं प्रति वर्त्त - मानोऽनवधेयवचनतया प्रेक्षावद्भिर्नितान्तमुपक्षणीयः सतां संसदि । तस्मात्परपुरुषवर्त्तिनो ऽज्ञानादयोऽभिप्रायभेदा वचनभेदात्मकलिङ्गबलान्नास्तिकेनाप्यनुमेया मन्तव्याः अन्यथा सकलव्यवहारोपप्लवप्रसङ्ग इत्यकामेनाप्यनुमानं मानमभ्युपेयम् । एवं सति प्रत्यक्षाभावेऽपि कार्यलिङ्गनानुमानेन ईश्वर सिद्धौ न किमपि बाधकं पश्यामः । अर्थात् यद्यपि रूपरसाद्यभावादीश्वररूपोऽर्थो न प्रत्यक्षगोचर:, तदभावादेव च व्याप्तेरभावान्नानुमानगम्योऽपि, सादृश्याभावान्नोपमानमान्यः, तदभावादेव च तत्कर्तृकागमाभावात्तदविषयश्च, दुर्जनते।षन्यायेनागमस्वीकारेऽपि इतरेतराश्रयादिदोषगणग्रस्ततयाऽऽगमस्य तत्साधने सर्वथाऽसामर्थ्यमेवेति कुचो - द्यजातमवतरति तथापि कार्यलिङ्गकमनुमानमीश्वरसाधने युक्तमीक्षामहे - तथाहि - " क्षित्य - ङ्कुरादिकं कर्तृजन्यं कार्यत्वाद् घटवद्" इति । " यद् यद् घटादिकार्यमुपलभ्यते तत् तत्सर्वमेव कुविन्दादिकर्तृजन्यमेवोपलभ्यते अस्ति च क्षित्यङ्कुरादिकमपि कार्यत्वधर्मोपेतं तत् कथं कर्त्तारमन्तरोत्पद्येतेति भवितव्यं तस्यापि केनचित् कर्त्रा, अस्माकमल्पज्ञानशक्तिमतां तु तत्कर्तृस्वं स्वप्नेपि नार्हति भवितुम् । जडच ( परमाण्वादि ) स्वयं किमपि कुर्वनपलभामहे तस्माद्यस्तस्य कर्त्ता स एवेश्वरः सर्वज्ञः सर्वशक्तिमांश्चेति निष्कण्टकः पन्थाः ।
"
नन्वत्र किं पक्षतावच्छेदकम् ? न तावत् क्षितित्वम् = पृथिवीत्वम् अङ्कुरादेरपि क्षितित्वेन पृथक्तदुपादानवैयर्थ्यात् पृथिवीत्वस्यैव पक्षतावच्छेदकत्वे अङ्कुरस्यापि पृथिवी कार्यतया पृथिवीत्वेन पृथक् तदुपादानं व्यर्थमेवेत्याशयः । अथ बूषे पक्षकुक्षिनिक्षिप्ततितिपदस्य भूमण्डलपरतया भूमण्डलाकुरादीनां सर्वेषामेव पक्षस्वलाभ:, ततश्च सर्वानुगतं पक्षतावच्छेदकं किमिति पृष्टे सति “पृथिवीत्व" मेवेत्युत्तरे नाङ्कुरादिपदोपादानवैयर्थ्यं तदा पृच्छयते किं प्रकृते क्षितित्वसामानाधिकरण्येन=पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरुद्देश्या ? पक्षतावच्छेदकावच्छेदकसामानाधिकरण्येन वा ? | आये दृष्टान्त भूतघटा दौ अंशतः सिद्धसाधनम् । नहि तत्र कार्यत्वेन कर्तृनन्यत्वे कस्यचिद्विवादः । द्वितीये पृथिवी - परमाणौ क्षितित्वसश्वेऽपि कार्यत्वहेतोर्बाधः । नहि भवता तत्र कार्यत्वं स्वीकर्तुं शक्यं क्षितित्वसत्त्वेऽपि । अथ जन्यक्षितित्वं पचतावच्छेदकं चेत् १ तदा व्यर्थविशेषणं परमतेऽजन्यक्षितेरभावात् । किञ्च जन्यत्वस्यैव पक्षतावच्छेदकत्वे पक्षतावच्छेदककोटौ क्षितित्वनिवेशो व्यर्थः । अपि चैवं जन्यत्व कार्य त्वयोरविशेषात् पत्ततावच्छेदकहेस्वोरैक्यप्रसङ्गोऽनिवार्य इति । अत्रोच्यते–“स्वरूप सम्बन्धविशेषरूपकार्यत्वं पचतावच्छेदकं प्रागभावप्रतियोगित्वरूपं कार्यत्वं हेतुतावच्छेदक" मिति न पक्षतावच्छेदकहेत्वोरैक्यापत्तिरिति सकलदोषपरिहारः ।
विवेचित: पक्ष: साध्यमिदानीं विवेचयाम: - कर्त्तृजन्यत्वं साध्यं न तावत्स्वोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वम् यतः कार्यमात्रं प्रति श्रन्वयव्यतिरेकाभ्यां कृतिरेव कारणं, कृतिजन्यज्ञानचिकीर्षयोर्घटं प्रति रासभस्येवान्यथासिद्धत्वम्, तेन च तत्त्रितयजन्यत्वरूपस्य स्राध्यस्य बाधः । अपि च यादृशं स्वत्वं दृष्टान्त भूतषटादौ न तादृशं पचवृत्तीति