________________
४४. सविवृतिप्रभोपेताया न्यायसिदान्तमुक्तावल्याः [गुरुग्रन्थे चिन्तान्तरे श्राहिता शुभवासनेति शाक्याः। कायारम्भकः सूमो मूर्तिमान् सुखहेतुः पुरखनामधेय इत्याहताः।
ननु ध्वंसोऽपि न व्यापारोऽस्तु, नच निर्व्यापारस्य चिरध्वस्तस्य कथं कारणत्वमिति वाच्यम्, अनन्यथासिद्धनियतपूर्ववर्तित्वस्य तत्रापि सवात्, अव्यवहितपूर्ववर्तित्वं हि चतुःसंयोगादेः कारणत्वे न तु सर्वत्र कार्यकालवृत्तित्वमिव समवायिकारणस्य कारणत्वे इत्यत आह(का०) कर्मनाशाजलपर्शादिना नाश्यस्त्वसौ मतः ॥१६२।।
(मु०) कर्मनाशेति । यदि ह्यपूर्व न स्यात्तदा कर्मनाशाजलस्पर्शादिना नाश्यत्वं धर्मस्य न स्यात्, नहि तेन यागादेर्नाशः प्रतिबन्धो वा कर्तुं शक्यते तस्य पूर्वमेव वृत्तत्वादिति । एतेन देवताप्रीतिरेव फलमित्यपास्तम् । गहास्नानादौ सर्वत्र देवताप्रीतेरसम्भवाच्च । देवतायाश्चेतनत्वे. ऽपि तत्प्रीतेरनुद्देश्यत्वात् । प्रीतेः सुखखरूपत्वेन विष्णुप्रीत्यादौ तदसम्भवात् । जन्यसुखादेस्तत्राभावात् । तेन विष्णुप्रीतिजन्यत्वेन पराभिमत. वर्गादिरेव विष्णुप्रीतिशब्देन लक्ष्यते ॥ १६१ ॥ १६२ ॥
(प्र० टी०) "कर्मनाशादि"ति--ध्वंसस्य तत्र न व्यापारता यागादेयापा रस्य कर्मनाशालजस्पर्शादिना शास्त्रे नाश्यत्वाभिधानेन निस्यस्य ध्वंसस्य नाशायोगात् । प्रादिना करतोयाविनधनादि ग्राह्यम् । उनन्च
कर्ममाशाजलस्पर्शात् करतोयाविलङ्घनात् ।
गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्तनात् ॥ इति । कोचिस्तु यागादिशुभक्रियाया देवताप्रीतिरेव फलमिति मन्यन्ते तान् प्रत्याह"एतेने"ति । पूर्वकथनेनेत्यर्थः । तत्र हेतुमाह-"गङ्गास्नानादावि"ति । ननु चेतना देवता कथं न तस्याः प्रीतिः फलं स्यादित्याशक्कायामाह-"देवतायाचेतनत्वेपी"ति । स्वर्गादिरवोद्देश्यमिति तदेव प्रयोजनं फलं वेति भावः । युक्रयन्तरमन्याह-"प्रीतेश्चे"ति । यत्र च "विष्णुप्रीति" रित्येवमाया: शब्दाः फला थत्वेन श्रूयन्ते तत्र लक्षणया स्वर्गादिरेव बोध्य इति भावः । स्वर्गस्य देवताप्रसादल भ्यस्वादिति तु रहस्यम् ।
इदम्च “यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । ( कणा० १।१।२) इत्यापसूत्रमूलकम् । अभ्युदयस्तत्त्वज्ञानं निःश्रेयसमात्यन्तिकी दुःखविवृत्तिः तदुभयं यतः स धर्मः । सच प्रवृत्तिनिवृत्तिलक्षणभेदात् द्विविधः। यागादिः स्वर्गफलः प्रवृत्ति रूपः,भगवदर्पणादिसन्न्यासादिस्वरूपो निवृत्तिरूपः । क्वचित्तु "अयन्तु परमो भो प्रयोगेनात्मदर्शनम्" इत्यादिनात्मसाक्षात्कारोऽपि धर्मपदेनोन इति दिक् ।
का०) अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः